________________
श्राद्धचन्द्रिकायाम्
गयायां मुण्डपृष्ठे च कूपे यूपे बटे तथा । दण्डं प्रदर्शयेद्भिक्षुः पितृभिः सह मुच्यते ॥ पितामह: --
१४४
चतुर्विधा भिक्षवस्तु विख्याता ब्रह्मणो मुखात् । कुटीचको बहूदको हंसश्चैव तृतीयकः ॥
चतुर्थः परमहंसश्च संज्ञेोभेदैः प्रकीर्त्तिताः । इति । तत्र कुटीचकस्य वृत्तिमाह
WHO'S
पराशर',
कुटीचका नाम पुत्रादिभिः कुटीं कारयित्वा कामक्रोधलोभभमोहपदमात्सर्य भयादीन हित्वा विधिवत्सन्न्यासं कृत्वा त्रिद दण्डजलपात्रकाषायवस्त्रधारिणः स्नानशौचाचमनजपस्वाध्यायब्रह्मयज्ञध्यानतत्पराः पुत्रादेरेव भिक्षाकालेऽन्नं यात्रामात्रमुपयुजानास्तस्यां कुट्यां नित्यं वसन्त आत्मानं मोक्षयन्त इति । यात्रामात्रं प्राणसंरक्षणपरिमितम् । बहुकस्यापि वृत्तिमाहपितामहः, --
बहूदकः स विज्ञेयः सर्वसङ्गविवर्जितः । बन्धुवर्ग न चेक्षेत स्वभूमौ नैव संविशेत् ॥
स्वभूमौ = स्वगृहे | हंसधर्मानाह स एव -
हंसस्तृतीयो विज्ञेयो भिक्षुर्मोक्षपरायणः । इति । परमहंसधर्माः स्कान्दे
कौपिनाच्छादनं वस्त्रं कन्थां शीतनिवारिणीम् । माधूकरमयैकानं परमहंसः समाचरेत् ॥ इीत | एषूत्तरोत्तरस्य प्राशस्त्यं बोध्यम् । “यो यः पश्चात्स उसम" इति पितामहोतेः । अस्मिंश्चतुर्थाश्रमे ब्राह्मणस्यैवाधि कारो न क्षत्रियवैश्ययोः ।
चत्वारो ब्राह्मणस्योक्ता आश्रमा श्रुतिचोदिताः । क्षत्रियस्य त्रयः प्रोक्ता द्वावेको वैश्यशूद्रयोः ॥ इति योगियाज्ञवल्क्यवचनात् ।