SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ सन्न्यासाङ्गाश्राद्धप्रयोगः। अथ सन्न्यासाङ्गश्राद्धम् । सन्यासं चिकीर्षुः कुर्यात्कृच्छ्राणि चत्वारि सम्म्यासेप्सुरनाश्रमी । आश्रमी कृच्छ्रमेकं तु कृत्वा सन्यासमहति ॥ इति कात्यायनवचनादुक्तकृच्छ्रपूर्वकं सन्न्यसेत् । ति. थ्यादि सङ्कार्याशेषदुःखनिवृत्तिनिरतिशयानन्दावाप्तिद्वारा परम. पुरुषार्थप्राप्तये परमहंसाश्रमाधिकारसिद्ध्यर्थ सन्न्यासमहं करिष्य इति सङ्कल्प्याचार्य वृणुयात् । अथाष्टमीमारभ्य पौर्णमास्यन्त. मथवा सन्न्यासात्पूर्वेयुरेव देवादिश्राद्धाष्टकं कुर्यात् । देवर्षिदि. व्यमनुष्यभूतपितृमात्रात्मनामिति अष्टौ श्राद्धानि । प्रथम सत्यव. मुसंज्ञकविश्वेदेवश्राद्धमन्ते मातामहश्राद्धं चेति द्वे श्राद्धे । एवं दश श्राद्धानि । सर्वत्र युग्मसङ्ख्याका ब्राह्मणा भवेयुः। अत्र च तिलकार्ये यवाः सर्वत्रोपवीतिता च झेया। तत्रायं प्रयोगक्रमः । विंशतिब्राह्मणानुपवेश्य समस्तसम्पदिति जपित्वा अनुज्ञां प्राप्य युष्माकं सिद्धिं यास्यामि शाश्वतीम् । गर्भवासभयाद्भीतस्तथा तापत्रयात्तु वै ॥ गुहां प्रवेष्टुमिच्छामि परं पदमनामयम् ॥ इति प्रार्य दण्डवत्प्रणम्य प्राङ्मुख उपविश्य देशकालौ नि. दिश्य सन्न्यासाङ्गभूतं नान्दीमुखं सदैवमष्टविधं श्राद्धं पार्वण. विधानेन युष्मदनुज्ञयाय करिष्ये इति सङ्कल्प्याप उपस्पृश्य सत्यवमुसंज्ञकविश्वेदेवार्थ भवद्भया क्षणः प्रसादनीय इति य. थाक्रमं द्वौ द्वावनुमन्त्र्य देवश्राद्धे ब्रह्मविष्णुमहेश्वरार्थे भवद्भयां० ऋषिश्राद्ध देवर्षिब्रह्मर्षिक्षत्रिययर्थे भवद्भयां० दिव्यश्रादे व. मुरुद्रादित्यार्थे भवद्भयां० मनुष्यश्राद्ध सनकसनन्दनसनत्कुमारार्थे भवद्भयां. भूतश्राद्धे पृथिव्यादिपञ्चमहाभूतचक्षुरादीन्द्रि यचतुर्विधभूतग्रामार्थे भवद्भयां० पितृश्राद्ध पितृपितामहमपिसा. १९श्रा० चं०
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy