________________
१४२ श्राद्धचन्द्रिकायाम्
तृप्तिपश्नं च विकिरं तीर्थ श्राद्धे विवर्जयेत् ॥ अग्नौकरणमपि तीर्थश्रादे नेति स्मृतिरत्नावल्याम् । पद्मपुराणे
तीर्थ श्राद्धं प्रकुर्वीत पकानेन विशेषतः।
आमानेन हिरण्येन कन्दमूलफलैरपि ॥(१) शूद्रस्तु सर्वदामेनैव कुर्यात
सदा चैव तु शूद्राणामामश्राद्धं विदुर्बुधाः ।
न पकं भोजयेद्विमान्सच्छूद्रोऽपि कदाचन ॥ भोजयन् प्रसवायी स्यान्न च तस्य फलं भवेत् । इति सुमन्तूक्तेः । गयाश्राद्धं साङ्कल्पेन विधिना न भवेत् । पिण्डदानशुन्यस्य तस्य फलाजनकत्वात् । अत एवोक्तं
हेमाद्रौ, आत्मजोऽन्योऽथवा कश्चिद्गयाकूपे क्टेऽथवा ।
यनाम्ना पातयेत्पिण्डं तन्नयेद्ब्रह्म शाश्वतम् ॥ इति दिक् । पिण्डद्रव्याणिदेवीपुराणादिषु,
सक्तुभिः पिण्डदानं च संयावैः पायसेन वा ।
कर्तव्यमृषिभिः प्रोक्तं पिण्याकेन गुडेन वा ॥ इति । तीर्थश्राद्ध पिण्डप्रतिपत्तिर्विष्णुधर्मोत्तरे--
तीर्थश्राद्ध सदा पिण्डान क्षिपेत्तीर्थ समाहितः ।
दक्षिणाभिमुखो मृत्वा पित्र्यादिक्सा प्रकीर्तिता॥ इति (१) एतच गयाश्राद्धव्यतिरिक्ततीर्थविषयमात्रविधानम् । त. प्रतन्निषेधात् । तथाच गालवा
मृताहं च सपिण्डं च गयाश्राद्धं महालयम् ।
आपन्नोऽपि न कुर्वीत श्राद्धमामेन न क्वचित् ॥ यत्तु भट्टपादैरुतमन्नासम्भवे आमेनापि कार्यम् , तदकरणामन्दकरण श्रेय इत्यभिप्रायेण बोध्यम् । नैतत्सारम् । बलीयांसो नि. षेधा भवन्तीतिश्रुतिविरोधात् । इत्यधिक पुस्तकान्तर ।
-
-
-