________________
तीर्थश्राद्धं मलमासेऽपि कार्यम् ।
१४१
1
ततः स्नानम् | तीर्थे यमुद्दिश्य स्नानं क्रियते सोऽष्टमांश रूपं स्नानजं फलमाप्नोति । तथाच
मार्कण्डेय पुराणे,
मातरं मितरं जायां भ्रातरं सुहृदं गुरुम् | यमुद्दिश्य निमज्जेत अष्टमांशं लभेत सः ॥ इति । पैठीनसिरपि
प्रतिकृतिं कुशमयों तीर्थवाििण मज्जयेत् । मज्जयेच्च यमुद्दिश्य सोऽष्टभागं फलं लभेत् ॥ इति ।
तत्र मन्त्रः
कुशोsसि कुशपुत्रोऽसि ब्रह्मणा निर्मितः स्वयम् । स्वयि स्नाते स च स्नातो यस्येदं ग्रन्थिबन्धनम् ॥ इति । इदं जीवतामेव । मृतानां तु तर्पणश्राद्धादिफलभाक्त्वेन जीवतामेव फलोद्देशस्योचितत्वात् । स्नानोत्तरं तर्पणश्राद्धे । तत्कालस्तु श्राद्धदेशनिरूपणे दर्शितः प्राक् । तीर्थश्राद्धं मल. मासेऽपि कार्यम् ।
नित्यनैमित्तिके कुर्याद्यत्नतः स मलिम्लुचे । तीर्थश्राद्धं गजच्छायां प्रेतश्राद्धं तथैव च ॥ इति वृहस्पत्युक्तेः । तत्र देवताः
ताताम्बात्रितयं सपत्नजननी मातामहादित्रयं सखि खीतनयादितातजननीस्त्र भ्रातरः सत्रियः । ताताम्बात्मभगिन्यपत्यधवयुक् जायापिता सद्गुरुः शिष्याप्ताः पितरो महालयविधौ तीर्थे तथा तर्पणे ॥ देवीपुराणे -
श्राद्धं च तत्र कर्तव्यवाहनवर्जितम् ।
भविष्ये—
आवाहनं विसृष्टिश्च तत्र तेषां न विद्यते ।
हेमाद्रावपि -
अमावाहनं चैव द्विजाङ्गुष्ठनिवेशनम् ।