________________
१४००
श्राद्धचन्द्रिकायाम्
कुर्वीत सम्प्रेष्यतीति सम्प्रेषणैव वपनानुष्ठानं दृश्यते सुधियाम् । प्रयागे सधवानामपीदं समूलं भवतीति श्रीभट्टपादाः । कोचत्तु
सन्केिशान्समुदधृत्य च्छेदयेदङ्गुलद्वयम् ।
एवमेव हि नारीणां शस्यते वपनक्रिया ॥ इति वचनादङ्गुलद्यपरिमितिकेशच्छेदनरूप पाहुः । सन्यासि. नस्तु तीर्थेऽपि ऋतुसन्धिम्वेव मुण्डनं कुर्युः ।। ___कक्षोपस्थशिखावर्जमृतुसन्धिषु वापयेत् ।
इति स्मृती ऋतुसन्धिष्वेवेति परिसख्यानात् । शिखां वर्जयित्वेति कुटीचकाभिप्रायेणोक्तम् । परमहंसानां सशिखमेव वपनम् । कक्षोपस्थवर्जनमितरेषामपि समानम् । इदं च जीवरिपतृकेणापि तीर्थे कार्यम् । जीवस्पितकाधिकारे
विना तीर्थ विना यज्ञं मातापित्रोर्मुति विना ।
यो वापयति लोमानि स पुत्रः पितृघातकः ॥ इति स्मृत्या तीर्थादेः पयुदस्तस्वात् । इदं च वपनं दशमासोय पुनस्ततीर्थप्राप्ती कार्य नान्तरा ।
संवत्सरं द्विमासोनं पुनस्तीर्थ व्रजेद्यदि । मुण्डनं चोपवासं च ततो योन कारयेत् ॥ इति स्मरणात् । द्विमासोनात्सम्वत्सरादित्यर्थः । कचिस्पध एव तादृशः पाठः । ऊर्ध्वमन्दाद्विमासोनादिति । ग्रन्थान्तरे
मुण्डनं चोपवासं च गौतम् सिंहगे रवौ । कन्यागते तु कृष्णायां न तु तचीरवासिनाम् ॥ इति । अत्र दशमासो पुनस्तत्तीर्थप्राप्ताववश्यं मुण्डनादि कार्यम् । अन्तरा तु फलेच्छया भवति न तु नियमेनेति यन्नपदार्थः । एतत्प्रयागातिरिक्तसर्वतीर्थे । प्रयागे तु विशेषः ।
प्रयागे प्रतियात्रं तु योजनत्रय इष्यते । भौरं कृत्वा तु विधिवत्ततः स्नायात्सितासिते ॥ इति ।