________________
तीथे मुण्डनोपवासावश्यकता। १३९ "वपनं यो न कारयेत्" "तस्मात्तापरिवापयेत्" "प्रयागे वपन कुर्यात्" इत्यादिरूपेण विधीनामुभयरूपत्वेऽपि
यानि कानि च पापानि ब्रह्महत्यासमानि च ।
केशानाश्रित्य तिष्ठन्ति तस्मात्केशान्वपाम्यहम् ।। इति मन्त्रलिङ्गाद्वपनं करिष्ये इत्येवं सङ्कल्पस्योचितत्वात् । मन्त्रलिङ्गबलात्प्रयोजकव्यापारस्यैव विवक्षितत्वाच्च । उपवास.
काल:.काशीखण्डे,
यदह्नि तीर्थप्राप्तिः स्यात्तदहः पूर्ववासरे ।
उपवासः प्रकर्तव्यः प्राप्तऽह्नि श्राद्धदो भवेत् ॥ इति । अनेन तीर्थप्राप्तिदिनात्पूर्वदिन उपोषणं नियतं प्राप्तं तत्___ उपवासं ततः कुर्यात्तस्मिन्नहनि सुव्रत !।
इति वचनेन विकल्पते । तस्मिन्नहनि-तीर्थप्राप्त्यहनि । केषु चित्तीर्थेषु मुण्डनोपवासौ निषेधतिदेवल:--
मुण्डनं चोपवासश्च सर्वतीर्थेष्वयं विधिः ।
वर्जयित्वा कुरुक्षेत्रं विशाला विरजां गयाम् ॥ इति । मुण्डनं च
उदङ्मुखः प्राङ्मुखो वा वपनं कारयेत्सुधीः ।। केशश्मश्रुलोमनखान्युदक्संस्थानि वापयेत् ॥ इति वचनप्रतीतपाठक्रमाकेशश्मश्यादिक्रमेण कार्यमिति केचित् । अस्मन्मातुः प्रपितामहचरणास्तु सेतो श्मश्रुकूर्चयोरा. दौ वपने क्षणमपि म्लेच्छवेषकृता लोकविद्विष्टतापि न भवती. स्पयं पक्षो बहुमत इत्याहुः । वस्तुतस्तु पूर्वमतमेव युक्तम् । यत्र यत्र श्मश्वादिसाहित्येन वपनमाम्नातं तत्र प्रोक्तक्रमस्यापि विव.' क्षितत्वात् । अत एवाश्वलायनोक्त गोदानव्रते-शुन्धि शिरो. मुखं मास्यायुः प्रमोषीः इति केशश्मश्रुलोमनखान्युदक्संस्थानि