Book Title: Shraddh Chandrika
Author(s): Divakar Bhatt
Publisher: Chowkhambha Sanskrit Series

View full book text
Previous | Next

Page 157
________________ तीर्थश्राद्धं मलमासेऽपि कार्यम् । १४१ 1 ततः स्नानम् | तीर्थे यमुद्दिश्य स्नानं क्रियते सोऽष्टमांश रूपं स्नानजं फलमाप्नोति । तथाच मार्कण्डेय पुराणे, मातरं मितरं जायां भ्रातरं सुहृदं गुरुम् | यमुद्दिश्य निमज्जेत अष्टमांशं लभेत सः ॥ इति । पैठीनसिरपि प्रतिकृतिं कुशमयों तीर्थवाििण मज्जयेत् । मज्जयेच्च यमुद्दिश्य सोऽष्टभागं फलं लभेत् ॥ इति । तत्र मन्त्रः कुशोsसि कुशपुत्रोऽसि ब्रह्मणा निर्मितः स्वयम् । स्वयि स्नाते स च स्नातो यस्येदं ग्रन्थिबन्धनम् ॥ इति । इदं जीवतामेव । मृतानां तु तर्पणश्राद्धादिफलभाक्त्वेन जीवतामेव फलोद्देशस्योचितत्वात् । स्नानोत्तरं तर्पणश्राद्धे । तत्कालस्तु श्राद्धदेशनिरूपणे दर्शितः प्राक् । तीर्थश्राद्धं मल. मासेऽपि कार्यम् । नित्यनैमित्तिके कुर्याद्यत्नतः स मलिम्लुचे । तीर्थश्राद्धं गजच्छायां प्रेतश्राद्धं तथैव च ॥ इति वृहस्पत्युक्तेः । तत्र देवताः ताताम्बात्रितयं सपत्नजननी मातामहादित्रयं सखि खीतनयादितातजननीस्त्र भ्रातरः सत्रियः । ताताम्बात्मभगिन्यपत्यधवयुक् जायापिता सद्गुरुः शिष्याप्ताः पितरो महालयविधौ तीर्थे तथा तर्पणे ॥ देवीपुराणे - श्राद्धं च तत्र कर्तव्यवाहनवर्जितम् । भविष्ये— आवाहनं विसृष्टिश्च तत्र तेषां न विद्यते । हेमाद्रावपि - अमावाहनं चैव द्विजाङ्गुष्ठनिवेशनम् ।

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192