Book Title: Shraddh Chandrika
Author(s): Divakar Bhatt
Publisher: Chowkhambha Sanskrit Series
View full book text
________________
बहुचानांश्राद्धप्रयोगः।
'मया निमन्त्रिताः पूर्व पितरो ये महाबलाः।
आश्रिय पितृकार्याणि सावधाना भवन्तु ते ॥ इति जपित्वा प्राङ्गणादौ देवपाद्यार्थ चतुरस्रं मण्डलं निहि. तगन्धपुष्पयवकुशं प्रादेशपात्रं दक्षिणे षडङ्गुलस्थानं त्यक्त्वा पितृपायार्थ प्रादेशमात्रं वर्तुलं मण्डलं निहितगन्धपुष्पतिलकुशं गोमयेन विधाय स्वयं प्रत्यङ्मुखः प्राङ्मुखं वैश्वदेविकद्विजमुप. वेश्य तत्पादौ मण्डले निधाय नमोस्त्वनन्तायेति सम्पूज्य पुरू. रवावमझका विश्वदेवा इदं व पाद्यमिति देवतीर्थन पाद्यं दवा पवित्रं निष्काश्य शन्नोदेवीरितिमन्त्रेण पादौ प्रक्षाल्य प्रा. चीनावीती दक्षिणमण्डले पित्राद्यर्थं ब्राह्मणमुदङ्मुखमुपवेश्य तथैव सम्पूज्यास्मपितृपितामहप्रपितामहाः अमुकशर्माणोऽमुक. गोत्रा वसुरुद्रादित्यस्वरूपा इदं वः पाद्यमिति घृताक्तपादयोः पायं दत्वा पुनः पवित्रं निष्काश्य शन्नोदेवीरितिपादौ प्रक्षाल्य सदपो मूनि धृत्वोपवीती पवित्रं विमृज्य मण्डलोत्तरतो ब्राह्मणान्द्विराचम्य स्वयं च द्विराचम्य भोजनस्थाने प्राङ्मुखं वैश्व देविकब्राह्मणं भूर्भुवः स्वः समाधवमिति हस्तमादायोपवेश्य प्रा. चौनावीती पित्राद्यर्थमुदङ्मुखं ब्राह्मणं तथैवोपवेश्योपवीती
देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च । नमः स्वाहायै स्वधायै नित्यमेव नमोनमः ॥ इति त्रिपित्वा तिथ्यादि सङ्कीर्यं प्राचीनावीती अस्म. पितपितामहप्रपितामहानामित्यायुक्त्वा सदैवं सपिण्डं पार्वण. विधिना क्षयाहश्राद्धं यष्मदनुज्ञया सद्यः करिष्ये, कुरुष्वति तैरुक्तः । अहता अमुरा रक्षांसि पिशाचा ये क्षयन्ति पृथिवीमनु अन्यत्रेतो गच्छन्तु यत्रैतेषां गतं मन इति तिलानवकीर्य 'उदीर. तामवरः पितरो हवेष्विति गायत्री च जपित्वा दर्भाम्भसान्नानि सम्मोक्ष्य सर्वे पाकाः शुचयः श्राद्धयोग्या भवन्तु दुष्टदृष्टिदोषा.
नमः ॥

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192