Book Title: Shraddh Chandrika
Author(s): Divakar Bhatt
Publisher: Chowkhambha Sanskrit Series

View full book text
Previous | Next

Page 160
________________ श्राद्धचन्द्रिकायाम् गयायां मुण्डपृष्ठे च कूपे यूपे बटे तथा । दण्डं प्रदर्शयेद्भिक्षुः पितृभिः सह मुच्यते ॥ पितामह: -- १४४ चतुर्विधा भिक्षवस्तु विख्याता ब्रह्मणो मुखात् । कुटीचको बहूदको हंसश्चैव तृतीयकः ॥ चतुर्थः परमहंसश्च संज्ञेोभेदैः प्रकीर्त्तिताः । इति । तत्र कुटीचकस्य वृत्तिमाह WHO'S पराशर', कुटीचका नाम पुत्रादिभिः कुटीं कारयित्वा कामक्रोधलोभभमोहपदमात्सर्य भयादीन हित्वा विधिवत्सन्न्यासं कृत्वा त्रिद दण्डजलपात्रकाषायवस्त्रधारिणः स्नानशौचाचमनजपस्वाध्यायब्रह्मयज्ञध्यानतत्पराः पुत्रादेरेव भिक्षाकालेऽन्नं यात्रामात्रमुपयुजानास्तस्यां कुट्यां नित्यं वसन्त आत्मानं मोक्षयन्त इति । यात्रामात्रं प्राणसंरक्षणपरिमितम् । बहुकस्यापि वृत्तिमाहपितामहः, -- बहूदकः स विज्ञेयः सर्वसङ्गविवर्जितः । बन्धुवर्ग न चेक्षेत स्वभूमौ नैव संविशेत् ॥ स्वभूमौ = स्वगृहे | हंसधर्मानाह स एव - हंसस्तृतीयो विज्ञेयो भिक्षुर्मोक्षपरायणः । इति । परमहंसधर्माः स्कान्दे कौपिनाच्छादनं वस्त्रं कन्थां शीतनिवारिणीम् । माधूकरमयैकानं परमहंसः समाचरेत् ॥ इीत | एषूत्तरोत्तरस्य प्राशस्त्यं बोध्यम् । “यो यः पश्चात्स उसम" इति पितामहोतेः । अस्मिंश्चतुर्थाश्रमे ब्राह्मणस्यैवाधि कारो न क्षत्रियवैश्ययोः । चत्वारो ब्राह्मणस्योक्ता आश्रमा श्रुतिचोदिताः । क्षत्रियस्य त्रयः प्रोक्ता द्वावेको वैश्यशूद्रयोः ॥ इति योगियाज्ञवल्क्यवचनात् ।

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192