Book Title: Shraddh Chandrika
Author(s): Divakar Bhatt
Publisher: Chowkhambha Sanskrit Series

View full book text
Previous | Next

Page 139
________________ सपिण्डीकरणश्राद्धस्य कालनिर्णयः। १२३ एकोदिष्टविधानेन कुर्यात्सर्वाणि तानि तु ॥ सपिण्डीकरणावं यदा कुर्यात्तदा पुनः । प्रत्यब्दं यो यथा कुर्यात्तथा कुर्यात्स तान्यपि ॥ अत्र गोभिलवचने षोडशग्रहणेऽपि पुनराकृत्तिः प्रातका. लानां न तु स्वस्वकालेऽनुष्ठितानाम् । अर्वागन्दायत्र यत्र सपिण्डीकरणं कृतम् । तर्ध्वं मासिकानां स्याद्यथाकालमनुष्ठितिः ॥ इति कार्णाजिनिवचनात् । वृद्धिप्राप्तावश्यं सपिण्डनोत्तरमा वर्तनीयानामनुमामिकानां भूयोऽपकर्षः कार्यः । तदुक्तम्- . शाव्यायनिना, सपिण्डीकरणादागपकृष्य कृतान्यपि । पुनरप्यपकृष्यन्ते वृद्ध्युत्तरनिषेधनात् ॥ इति ।। निषेधमाह कात्यायन:, निर्वयं वृद्धितन्त्रं तु मासिकानि न तन्त्रयंत् । अयातयामं मरणं न भवेत्पुनरस्य तु ॥ इति । यदि वृद्धिश्राद्धोत्तरं मासिकानि कुर्यात्तदा मृतस्य मरणं पुनर्भवेदिति निन्दारूपो दोषः । अत्र फलचमसे राजन्यवैश्यनिमित्तेन विहिते सोमाङ्गानामभिषवक्रयादीनां विधिन समानस्तद्वद्वयादिनिमित्तन विहितः सपिण्डीकरणमासिकापकर्षः चौ. लोपनयनसमावर्चनविवाहाग्न्याधानेष्वापूर्ताद्यङ्गभूतवृद्धिश्राद्ध एवं वर्तते न तु गर्भाधानसीमन्तजातकर्मनामकरणानप्रासनवा. स्तुपूजावताद्यङ्गभूतवृद्धिश्राद्धेऽपीति निष्कर्षः। निर्णीतथायमे. वार्थों द्वैतनिर्णयेऽस्मन्मातुः पितामहचरणैः । वृद्धिं विना त्वेतेषा. मनुमासिकानामपकर्षणं न कर्चव्यम् । अन्तरेणैव यो वृद्धिं प्रेतश्राद्धानि कर्षति । स श्राद्धी नरके घोरे पितृभिः सह मज्जति ॥

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192