Book Title: Shraddh Chandrika
Author(s): Divakar Bhatt
Publisher: Chowkhambha Sanskrit Series

View full book text
Previous | Next

Page 154
________________ प्राडचन्द्रिकायाम् अथ तीर्थप्राप्तौ। प्रभासखण्डे, थानादि तु परित्यज्य भाव्यं पादचरैनरैः । लुठित्वा लोठनी तत्र कृत्वा कार्पटिकाकृतिम् ॥ इति । लोठनी लुठित्वा-साष्टाङ्गं प्रणम्येत्यर्थः । साष्टाङ्ग प्रणामस्तु.. पद्भ्यां कराभ्यां जानुभ्यां शिरसा चोरसा तथा । मनसा वचसा दृष्टया प्रणामोऽष्टाङ्ग उच्यते ॥ इति । अनन्तरं-- प्रथमं चाळयेत्तीर्थे प्रणवेन जलं शुचिः। अवगाह्य ततः स्नायाद्यथावन्मन्त्रयोगतः ॥ इति । चालयेत्:स्पृशेत् । मन्त्रस्तु तीक्ष्णदंष्ट्र ! महाकाय ! कल्पान्तदहनोपम! । भैरवाय नमस्तुभ्यमनुज्ञां दातुमर्हसि ॥ अन्यथा तत्फलस्याध तीर्थेशो हरति ध्रुवम् । एतन्मन्त्रवत्स्नानं वपनोत्तरं कार्यम् । पूर्वमाप्लवनं तीर्थे मुण्डनं तदनन्तरम् । ततः स्नानादिकं कुर्यात्पश्चाच्छादं समाचरेत् ॥ इति स्मृतेः। काशीखण्डे-- तीर्थोपवासः कर्तव्यः शिरसो मुण्डनं तथा । इति । नारदीयेऽपि-- तीर्थमासाद्य कुर्वीत नरः शुचिरुपोषणम् । उपवासविशुद्धात्मा कर्तव्यं कर्तुमर्हति ॥ इति । अत्रेदं चिन्त्यते-मुण्डने किं वपनं करिष्ये कारयिष्ये इति वा सङ्कल्पः। तत्र केचिदाहुः वपनं कारयिष्ये इति सङ्कल्पोऽथवा वापनं करिष्ये इति न तु वपनं करिष्य इति । तदयुक्तम् ।

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192