________________
भार्यारजोदर्शनरूपे श्राद्धविघ्ने निर्णयः । १९३
२. श्राद्धं तत्र न कर्त्तव्यं कर्तव्यं पञ्चमेऽहनि ।। इति । तदपुत्रस्त्रीकर्त्तृकश्राद्धविषयम् । तथाच यस्य भार्या रजस्व - लेत्यस्यायमर्थः । यस्य श्राद्धकर्त्री भार्या रजस्वलेति । तथाच -- श्लोक गौतमः,
अपुत्रा तु यदा भार्या सम्प्राप्ते भर्तुराब्दिके । रजस्वला भवेत्सा तु कुर्यात्तत्पञ्चमेऽहनि ॥ इति । पाराशरीये प्रभासखण्डेऽपि
शुद्धा स्यात्तु चतुर्थेऽहि स्नानाभारी रजस्वला । दैवे कर्मणि पित्र्ये च पञ्चमेऽहनि शुध्यति ॥ इति । असावेव पक्षः कालादर्श पराशर माधव प्रयोग पारिजात विवेचनकारसिन्धुकारादीनां सम्मतः । हेमाद्रिस्तु " पाणिग्रहणाद्धि सहत्वं सर्वकर्मसु " इति वचनेन भार्याया अपि श्राद्धे सहाधिकारात्तस्यां रजस्वलायामशुचित्वेनानधिकारे व्यासज्यवृत्ते भर्तृगतस्याधिकारस्य विधातात्पश्च मदिने एव श्राद्धं युक्तम् । तदर्थं यस्य श्राद्धकर्त्तुरित्येवार्थो मृतेऽहनीति वचनस्य । "पुष्पवस्वपि दारेषु" इत्यादीनि वचनानि सहाधिकृतभार्यान्तरविषयाणीत्याह । तन्मन्दम् | "जायापती अग्निमादधीयाताम्" इत्यादिना आधाने सहाधिकारादाधान सिद्धाग्निसाध्य कर्मस्वपि सहाधिकारसिद्धेः " पाणिग्रहणाद्धि" इतिवचनमणीतस्य सहाधिकारस्योभयसंयोगेनोत्पन्नश्रौतस्मार्त्ताग्निसाध्यकर्मस्वेव न्याय्यत्वात् । श्रा द्धकर्मणि निरग्नीनामप्यधिकाराच्छ्राद्धकर्मणः पत्नी साध्य कर्माघटितत्वाच्च । तस्मादेकभार्यः साग्निकोऽपि तस्यां रजोवत्यामन्नेन मृताह एवाब्दिक मासिकश्राद्धे कुर्यात् । श्राद्धकर्त्री स्त्री चेद्रजस्वला तदाब्दिकं मासिकं च पञ्चमदिनादौ कुर्यात् अमावास्यानिमित्तं तु तस्या लुप्यत एवेति । श्रीमातामहगुरवस्तु हेमायनुसारेण मृताहनीतिवचनात्कतुर्भार्यायां रजस्वलायां सत्यां पञ्चमदिने एव
१५ श्रा० चं०
·