SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ श्राद्धचन्द्रिकायाम् क्षयाहश्राद्धं कार्य " पुष्पवत्स्वपि दारेषु" इत्यादीनि वचनानि तत्पराण्येवेत्याहुः । ११४ मतद्वयं प्रमाणत्वाल्लोकैराद्रियतेऽधुना । विस्तरस्त्वत्र निर्दिष्टो नास्माभिर्ग्रन्थगौरवात् ॥ अथान्वारूढायाः चयाहनिर्णयः । यदि पत्नी पत्या सकतिधावन्वारूढा तर्हि क्षयाहश्राद्धे बि. श्वेदेवपाकादितन्त्रता ब्राह्मण: पिण्डश्च भिन्न इत्यसंशयमेव । एकचित्यां समारूढौ म्रियेते तदम्पती यदि । तन्त्रेण श्रपणं कृत्वा पृथक् पिण्डं समाचरेत् || इति प्रचेतोवचनात्, मृतेऽहनि समासेन पिण्डनिर्वपणं पृथक् । नवश्राद्धं च दम्पत्योरम्वारोहण एव तु ।। इति लौगाक्षिवचनाच्च । समासेन=तन्त्रेण श्रपणमि ति शेषः । पिण्डदानं पृथगसपत्नीक । नवश्राद्धमपि तद्वदेव कुर्यात् । गायोंsपि -- एकचियां समारूढौ दम्पती निधनं गतौ । 1 पृथक् श्राद्धं तयोः कुर्यादोदनं च पृथक् पृथक् ॥ इति । श्राद्धशब्दो ब्राह्मणभोजनपरः । ओदनशब्दः पिण्डपरः । तेन विश्वेदेवादीनां खारादुपकारिणां तन्त्रता ब्राह्मणभोजनपिण्डदा नयोरतन्त्र तेतिसिद्धम् । यत्तु भृगुवचनम्- 1 या समारोहणं कुर्याद्भर्वृचित्यां पतिव्रता । मृतानि सम्प्राप्ते पृथकूपिण्डे नियोजयेत् || प्रत्यब्दं च नवश्राद्धं युगपत्सु समापयेत् । इति, तदपि स्पष्टार्थतया पृथक्पिण्डप्रदानपरमेव । एतेनेदं येषां वार्षिकमेकोद्दिष्टमुक्तं तद्विषयमिति केषां चिदुक्तिः परास्ता । यदा तिथ्यन्तरेऽम्वारूढा तदा तत्तियों भिन्नमेव क्षयाहश्राद्धं कर्त्तव्य •
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy