SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ अन्वारूढायाः क्षपाहनिर्णयः । ११५ मिति सर्वनिबन्धकार सम्पत सिद्धोऽर्थः । दाक्षिणायास्तु तिथिभे देsपि भर्तृतियावेव विश्वेदेवाद्या रादुपकारकाङ्गतन्त्रेण द्वयोरपि श्राद्धं समाचरन्ति । तत्र- एक चित्यां समारूढौ दम्पती प्रमृतौ यदि । पृथक् श्राद्धं प्रकुर्वीत पत्युरेब क्षयेऽहनि || मृतानामपि मृत्यानां भार्याणां पतिना सह । तन्त्रेण श्रपणं कृत्वा श्राद्धं स्वामिक्षयेऽहनि ॥ इति चन्द्रप्रकाशे लिखितं वचनमिदं प्रायोऽमूलं पश्यामः । ननु भिन्नतिथिसमन्वारूढायाः कथमेकचितिसमारूढस्वमिति चेत्, शृणु । चितिशब्दो यूपादिशब्दवद्दृष्टादृष्टसमुदायवाची तेन देशान्तरे कालान्तरे वाऽमन्त्रक दाहेऽपि संस्काराभावेनास्त्येव पलाशादिप्रकृतिदाहकाले चितिमेदाभावः इतरथा सार्वजनीनोऽनुगमनरूप आचारो व्याहन्येत तस्मादयमेवार्थो युक्तः । व्यवस्था - पितं चैवमेव मूलं प्रकारान्तरेण द्वैत निर्णयेऽस्मन्मातुः पिताम हचरणैः । तेषां सिद्धान्तकारिका अपि एकस्यामथ भिन्नायां तिथौ कालान्तरेऽपि वा । अन्वारूढ जनन्यास्तत्पत्न्याश्चापि वार्षिकम् ॥ पार्वणेन विधानेन विश्वेदेवादितन्त्रतः । पिण्डब्राह्मणभेदेन समासविधितो भवेत् ॥ मासिकादिष्वेवमेव न्यायतोऽनुष्ठितिर्मता । अपवादान्नवश्राद्धे पृथक्पृथगनुष्ठितः ॥ तत्राप्यसम्भवे तन्त्रं वार्षिकादिष्विवाचरेत् । इति । ग्रन्थगौरवभीत्येह विस्तृतिर्न प्रदर्शिता । पश्यन्तु तां पुनर्द्वैतनिर्णयादिषु भावतः || विस्तृतौ मोहमानोति जनः शास्त्राकृतश्रमः । अतोऽत्र विषयान्वपि सङ्क्षेपेणा खिलानहम् ||
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy