SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ११६ গান্ধা अथ श्राइसन्निपाते निर्णय: प्रदश्यते । पराशरीये भृगुः, एककाले गतासूनां बहूनामथवा द्वयोः । तन्त्रेण श्रपणं कुर्याच्छादं कृत्वा पृथक्पृथक् ॥ पूर्वकस्य मृतस्यादौ द्वितीयस्य ततः परम् । तृतीयस्य ततः कुर्यात्सन्निपातेष्वयं क्रमः ॥ इति । एककाले एकतिथौ। अत्रिरपि बहूनामथवा द्वाभ्यां श्राद्धं चेत्स्यात्समेऽहनि । तन्त्रेण श्रषणं कृत्वा श्राद्धं कुर्यात्पृथक्पृथक ॥ इति । द्वयोरित्यर्थे द्वाभ्यामिसार्षः । इदं च तन्त्रेण श्रपणं - पृथक्पाकासामर्थे इति केचित् । अत्र पित्रोः श्राद्ध समं प्राप्ते न चेत्पर्युषितेऽपि वा। पर्युषिते-चिरन्तने। पितृपूर्व मुतः कुर्यादन्यत्रासनियोगतः ॥ इति कार्णाजिनिवचनात् स्मृत्यर्थसारपराशरमाध. धमदनपारिजातकालादादयोऽविशेषण पूर्व पितुः क्षया. हश्राद्धं ततो मातुरित्याहुः । हेमाद्रिस्तु मरणपौर्वापर्यज्ञाने म. रणक्रमेणैव मरणपौर्वापर्याज्ञाने पितृपूर्वकमित्याह । भवेद्यदि सपिण्डानां युगपन्मरणं यदा । सम्बन्धासत्तिमालोच्य तत्क्रमाच्छ्राद्धमाचरेत् ॥ इति । 'पार्वणैकोद्दिष्टयोर्युगपत्नसक्तावाह-- जावालिः, योकत्र भवेयातामेकोदिष्टं च पार्वणम् । पार्वणं त्वभिनिवर्त्य एकोद्दिष्टं समाचरेत् ।। अत्रैकोहिष्टमभिनिर्वयं पार्वणं समाचरोदत्यन्वयः । एको.
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy