________________
धाडसन्निपाते निर्णयः। ११७ दिष्टस्य पार्वणात्याकालीनत्वबोधनात् । एवं दर्शे क्षयाहप्रसक्तों प्रयोगपरिजातेआश्वलायन:,
यन्मास्येवाब्दिकं श्रादं यस्य पित्रोवेदिह ।। प्रापिण्डदानात्तन्मासि पार्वणं न समाचरेत् ॥ इति । मासि-अमावास्यायाम् । 'पार्वणम्-दर्शश्रादम् । तथा च वार्षिकात्माफ् दार्श न कार्यमित्यर्थः । अत्र यद्यपि--
नैकः श्राद्धद्वयं कुर्यात्समानेऽहनि कुत्रचित । इतिप्रचेतोवचनाच्छादद्वयमेकस्यैकाहनि निषिद्धं तदनिः । मित्तकम् । सनिमित्तकान्यनेकान्यपि सम कार्याणि । तदुक्तम् - जावालिकात्यायनाभ्याम् ,
श्राद्धं कृत्वा तु तस्यैव पुनः श्राद्धं न तदिने । नैमित्तिकं तु कर्तव्यं निमित्तानुक्रमोदयम् ॥
द्वे बहूनि निमित्तानि जायेरन्कवासरे । . नैमित्तिकानि कार्याणि निमित्तोत्पत्त्यनुक्रमात् ॥ इति ।
तेन नानानिमित्तान्यनेकश्राद्धानि कुर्वतां न दोषः । तथाहि। दर्श चेपितृक्षयाहस्तदा क्षयाहप्रयुक्तं श्राद्धं कृत्वा दार्श कार्य तदपि समाप्य ग्रहणं चेत्तनिमित्तकमपि भोकभावे आमादिना कृत्वा पुत्रजन्म यदि स्यात्तनिमित्तमपि कुर्वीत । एवं तीर्थविशे. षेषु तत्ततीर्थफलावाप्तये नानाश्रादानि कार्याणि । अनेकोद्देश्यकानां श्राद्धानां कालैक्ये तन्त्रंणानुष्ठानं यथा दर्शादौ पितृश्रा. दमातामहश्राद्धयोः । एवमनेकनिमित्तकश्राद्धसम्पातेऽगृह्यमाणविशेष प्रधानानामङ्गानां च तन्त्रेणानुष्ठानम् । यथा सङ्क्रान्ति. व्यतीपातादिश्रादानाम् । तत्र सङ्कल्पवाक्ये सक्रान्तिव्यतीपातादिश्रादं च तन्त्रेण करिष्ये इत्युल्लेखः । एकदेवताकयोः काम्यनित्यश्रादयोः सन्निपाते काम्येन नित्यश्रादसिदिः । त.