________________
श्राडचन्द्रिकायाम्
११८
दुक्तम्
पाराशरीये स्मृतिसङ्ग्रहे,
काम्यतन्त्रेण नित्यस्य तन्त्रं श्राद्धस्य सिध्यति । इति । दैवतैक्ये कचिदेकनिमित्तकानुष्ठानेनाप्यन्यनिमित्तकस्य म
सङ्गमिद्धिर्भवतीत्युक्तम्
कालादर्श,
नित्यदार्शिक योश्वोदकुम्भमासिकयोरपि । दार्शिकस्य युगादेश्व दार्शिकालभ्ययोगयोः ॥ दार्शिकस्य तु मन्वादेः सम्पाते श्राद्धकर्मणः । प्रसङ्गादितरस्यापि सिद्धेरुत्तरमाचरेत् ॥ इति । देवताभेदे तु तन्त्रापवाद उक्तस्तत्रैव
निसस्य चोदकुम्भस्य नित्यमासिकयोरपि । नित्यस्य चान्दिकस्यापि दार्शिकाब्दिकयोरपि ॥ युगाद्याब्दिकयोश्चापि मन्वाद्याब्दिकयोरपि । प्रत्याब्दिकेषु चालभ्ययोगेषु विहितस्य च ॥ सम्पाते देवताभेदात् श्राद्धयुग्मं समाचरेत् । इति । अथ सपिण्डीकरणम् ।
सच्च सिद्धान्नेनैव कार्यं नामादिना । तदुक्तम्-स्मृत्यर्थसारे,
सपिण्डीकरणं तु सर्वथाऽनेनैव कार्यमिति । सरफलमाह विष्णुधर्मोत्तरे मार्कण्डेयः,
कृते सपिण्डीकरणे नरः संवत्सरात्परम् । प्रेतदेहं परित्यज्य भोगदेहं प्रपद्यते ॥ इति । भोगदेहः = पितृदेहः । येषां सपिण्डीकरणं निषिद्धं तेषां मवश्राद्धादिविधानात्तावन्मात्रेणैव भोगदेहप्राप्तिः कल्य्या | एकादशे द्वादशेऽह्नि त्रिपक्ष वा त्रिमासि वा । षष्ठे चैकादशे चाब्दे सम्पूर्णे वा शुभागमे ॥