________________
११२
श्राद्धचन्द्रिकायाम्
पत्री रजोदर्शनरूपे श्राद्धविघ्ने । तत्राह पाराशरीये उशना -- अपत्रक: प्रवासी च यस्य भार्या रजस्वला । सिद्धानेन न कुर्वीत आमं तस्य विधीयते ।। इति । कात्यायनोऽपि --
आपद्यननौ तीर्थे च प्रवासे पुत्रजन्मनि । आमश्राद्धं प्रकुर्वीत यस्य भार्या रजस्वला || इति । व्याघ्रपादोऽपि --
आर्त्तवे देशाकालानां विप्लवे समुपस्थिते । आमश्राद्धं द्विजैः कार्य शुद्रः कुर्यात्सदैव हि । इति । कालादर्शे तु पत्नीरजोदर्शने दर्शश्राद्धं पञ्चपदिने कार्यमिति पक्षान्तरमुक्तम् । तत्र नियतपदग्रहणात् गौणकाळविधायकवचनाभावादितिभावः । आब्दिकं हि पत्म्यां रजस्वलायां सत्यामपि तद्दिन एवं कार्यम् ।
पुष्पवत्स्वपि दारेषु विदेशस्थोऽप्यनग्निकः । अनेनैवाब्दिकं कुर्याद्धेम्ना वामेन न कचित् ॥ इति पाराशरीये लौगाक्ष्युक्तेः । मरीचिरपि --
अनग्निकः प्रवासी च यस्य भार्या रजस्वला । आमश्राद्धं द्विजः कुर्यान तत्कुर्यान्मृतेऽहनि ।। इति । रजोदोषे सत्यपि तदामश्राद्धं मृतेऽहनि न कुर्यात्किन्तु प कान्नेनैव कुर्यादित्यर्थः । तथाच --
तिथिच्छेदो न कर्त्तव्यो विनाशौचं यदृच्छया । पिण्डश्राद्धं च दातव्यं विच्छित्तिं नैव कारयेत् || इति ऋष्यशृङ्गवचोऽपि मञ्जुलं सङ्गच्छते । यत्तु हेमाद्रयादिपरिघृतं वचनम् —
मृतेऽहनि तु सम्प्राप्ते यस्य भार्या रजस्वला ।