________________
भारजोदर्शनरूपे विघ्ने निर्णयः ।
मलमासेऽपि तत्कार्यमिति भागुरिभाषितम् ॥ इति भृगुवचनात् । चकारस्त्वर्थे । रोगादिना प्रतिबन्धे तु मृताह एवान्येन पुत्रादिना श्राद्धं कारणीयम् । पूर्वोक्तवचनात् । अथ भार्यारजोदर्शने (१) ।
तत्र पाकासम्भवे दर्शादिश्राद्धमामनैव कार्यम् । श्राद्धविघ्ने द्विजातीनामामश्राद्धं प्रकीर्त्तितम् । अमावास्यादि नियतं माससम्वत्सरादृते || इति पराशर माधवधृतहारीतवचनात् । श्राद्धविघ्ने=
(१) अत्र -- गर्भिणीपतिरजस्वलापतिवरणं न कार्यम् । स्मृती-
25
•
१११
रजस्वलाङ्गना यस्य गर्भिणी वा पराभवत् । न यज्ञे वरणं योग्यं गालवो मुनिरब्रवीत् ॥ यशब्देन आधानादिकर्मापि गृह्यते । रुद्रस्कन्दकारिकायां तु-रजस्वलायां भार्यायामाविज्यं श्राद्ध भोजनम् । यात्रामम्बुनिधिस्नानं वर्जयेत्तत्पत्तिः सदा ॥
गर्गः -- भुरकर्म तथाविज्यं यात्रामभ्यमेव च । देवताच परगृहे सागरस्नानमेव च ॥ श्राद्धभुक्तिश्च वर्ज्य स्याद्यदि पत्नी रजस्वला ॥ शाट्यायनः – रजस्वलापतिर्यात्रां श्राद्धभुक्तिं तथार्त्विजम् । सिन्धुस्नानं तथारिज्यं क्षुरकर्म च वर्जयेत् । भाण्ड स्पर्शपर्यन्तमिति गौतमभाषितम् । देवे पिये तथाविज्ये परार्थे जपकर्मणि ॥ उदक्यासूतिकाभर्ता वर्जनीयः प्रयत्नतः । उदक्यायाः पतिं चैव सुतिकायाः पतिं तथा ॥ भाण्डस्पर्शनपर्यन्तं देवे पित्र्ये च वर्जयेत् । काम्यकर्मणि हनिकल्पं न कुर्यात् ॥
हनिकल्पं न कुर्वीत सति द्रव्ये कथञ्चन । प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते ॥
न पारलौकिकं तस्य दुर्मतेर्विद्यते फलम् । इति मनुवचनात् । इत्यधिकं पुस्तकान्तर ।