________________
११०
श्राद्धचन्द्रिकायाम्कार्ये आपदि च बोध्यः ।
स्वस्वकाले विदं सर्व सूतकं परिकीर्तितम् ।
आपद्गतस्य सर्वस्य सूतकेऽपि न सूतकम् ॥ इति दक्षोक्तः । दातृरहे मरणादौ हेमाद्रौ-- ब्राह्मे,
भोजनार्धे तु सम्भुक्ते विप्रैतुर्विपद्यते । गृहे इति शेषः।
यदा कश्चित्तदोच्छिष्टं शेषं त्यक्त्वा समाहिताः । आचम्य परकीयेन जलेन शुचयो द्विजाः । इति ।
अथाशौचन श्राद्धप्रतिबन्धे पाराशरीयेऋष्यशृङ्गः,
देये पितॄणां श्राद्धे तु आशौचं जायते यदा । आशाचे तु व्यक्तिक्रान्ते तेभ्यः श्राद्धं प्रदीयते ॥ इति । अत्राप्यन्तरितकालो हेमाद्रौ षत्रिंशन्मते--
मासिके चान्दिके त्वति सम्प्राप्ते मृतसूतके ।
वदन्ति शुद्धौ तत्कार्य दर्शे वापि विचक्षणाः ।। मरीचिः
श्राद्धविघ्ने समुत्पन्ने अविज्ञाते मृतेऽहनि ।
एकादश्यां तु कर्तव्यं कृष्णपक्षे विशेषतः ॥ अत्रिः
सदहश्चेत्सदृष्येत केन चित्सूतकादिना।
सूतकानन्तरं कार्य पुनस्तदहरेव वा ॥ विवेचनकारास्तु 'पुनस्तदहरेव वा' इदं मासिकपर. मित्याहुः । यद्याशौचान्तो मलमासे पतेत्तर्हि तत्राप्यन्तरित. श्राद्धं कार्यम् ।
प्रतिसम्वत्सरश्रादमाशौचात्पतितं च यत् ।