________________
श्राद्धविन्ने निर्णयः।
१०५
ब्रह्मपुराणे,
दातुः प्रतिग्रहीतुश्च कन्यादाने च नो भवेत् । विवाहयिष्णोः कन्याया लाजहोमादिकर्मणि ॥ इति । दावप्रतिग्रहीतग्रहणमुपनयनादिषु संस्कार्यसंस्कारयोरुप. लक्षणं ज्ञेयम् । अत्र सर्वत्र साज एव तत्तत्कर्मण्याशौचाभावो बोध्यः। दानजपहोमार्चनादयस्तु व्रतशब्देनैव सगृहीताः। पाकपरिक्रिया=पाकारम्भः । प्राले--
गृहीतनियमस्यापि न स्यादन्यस्य कस्य चित् । इति । योगीश्वर:
दाने विवाहे यज्ञे च सङ्ग्रामे देशविप्लवे । ..
आपद्यपि च कष्टायां सघाशोचं विधीयते ।। दाने सन्तताबदाने । विष्णुः____ आशौचं न राज्ञां राजकमणि न वतिनां यते न सत्रिणां सत्रे न कारूणां कारुकमणि न राजाज्ञाकारिणां तदिच्छायां न देवप्रतिष्ठाविवाहयोः पूर्वसम्भृतयोरिति । प्रचेता:
कारवः शिल्पिनो वैद्या दासीदासास्तथैव च ।
राजानो राजभृयाश्च सद्याशौचाः प्रकीर्तिताः ॥ पैठानसि:--
विवाहदुर्गयज्ञेषु यात्रायां तीर्थकर्मणि ।
न तत्र सूतकं तद्वत्कर्म यज्ञादि कारयेत् ॥ वैरिवेष्टितदुर्गसंरक्षणार्थी यहा दुर्गयज्ञाः शान्तिको उचाटनादयः । यात्रायां प्रारब्धायाम् । तीर्थकर्मणि-आकस्मिकतीप्राप्तौ । अत्र च नृपकारुवैद्यादावाशौचसोचस्तत्त