________________
श्राद्धचन्द्रिकायां
नेष्टिपशुबन्धचातुर्मास्यादौ दीक्षणीयाभावाद्यजमानस्य प्रधानस कूल्पोत्तरमाशौचपातेऽस्त्येवा शौचम् । तथापि कर्मसमाप्तिस्तु
स्यादेव |
૦૮
विवाहदुर्गयज्ञेषु यात्रायां तीर्थकर्माणि ।
न तत्र सूतकं तद्वत्कर्म यज्ञादि कारयेत् || इत्यपरार्कघृतपैठीनसिवचनात् । तत्रानुत्तरे क्षिपेयुरिति
ग्रन्थान्तरे |
याज्ञवल्क्यः-
ऋत्विजां दीक्षितानां च यज्ञियं कर्म कुर्वताम् । सत्रिव्रतिब्रह्मचारिदातृब्रह्मविदां तथा ॥ दाने विवाहे यज्ञे च सङ्ग्रामे देशविप्लवे । आपद्यपि च कष्टायां सद्यः शौचं विधीयते ।। इति । ऋत्विजां मधुपकचरमेव सद्यः शुद्धिः । गृहीतमधुपर्कस्य यजमानाच ऋत्विजः । पश्चादाशचे पतिते न भवेदिति निश्चयः ।। इति ब्राह्मात् । अत एव रामाण्डार : "चतुर्णा वरणपक्षेऽन्येषामाशौच अन्ये आगमयितव्या" इत्याह प्रायश्चित्ते । एवं स्पार्थेऽपि तुलाकोटिहोमोत्सर्गादौ मधुपर्के सति ऋत्विजां दोषाभावो शेयः । अत्र सर्वत्र ऋत्विग्दीक्षितानां तु सत्यप्याशौचाभावे -
श्रौतकर्मणि तत्काळ स्नातः शुद्धिमवाप्नुयात् । इति व्याघ्रवचनाद्भवत्येव स्नानम् । व्रतशब्देन प्रायचितार्थस्वेनान्यथा वानुष्ठीयमानं द्वादशाब्दवनवासकृच्छ्रचान्द्रायादि । त्रपदेन मुख्यमेव सत्रं गृह्यते तत्र वरणाभावात् । नान्दीमुखं नान्दीश्राद्धम् । आदिना नान्दीश्राद्धवत्संस्कारक र्ममात्र ग्रहणम् । विवाहे सद्यः शौचं केषामित्यपेक्षायाम् -