________________
श्राविघ्ने निर्णयः ।
इष्टिमायुष्मतीं कुर्यादप्सितां क्रतूंस्ततः ।
इति सर्वे शिवम् ।
१०७
अथ श्राद्धविघ्ने निर्णयः ।
सत्र क्षणदानोचरं ब्राह्मणस्य शावाशौचं सूत्याशौचं बाप
सेवेचनास्तीत्युक्तम् -
ब्राह्मे,
निमन्त्रितेषु विप्रेषु प्रारब्धे श्राद्धकर्मणि । निमन्त्रणाद्धि विप्रस्य स्वाध्यायाद्विरतस्य च ॥ देहे पितृषु तिष्ठत्सु नाशचं विद्यते कचित् । इति । कर्त्तस्तु विष्णुराह
व्रतयज्ञविवाहेषु श्राद्धे होमेऽर्चने जपे ।
पारब्धे सूतकं न स्यादनारब्धे तु सूतकम् ॥ इति । प्रारम्भस्तेनैवोक्तः
आरम्भो वरणं यज्ञे सङ्कल्पो व्रतसत्रयोः । नान्दीमुखं विवाहादौ श्राद्धे पाकपरिक्रिया || इति । अत्र प्रसङ्गास्किञ्चिच्चिन्त्यते । अत्र यद्यपि सामान्यतो यज्ञे समन्त्रकऋत्विग्वरणरूपप्रारम्भवत एव यजमानस्याशौचाभावः प्रतीयते तथापि स दक्षिणीयेष्ट्या संस्कृतस्यैव तस्य बो ध्यः । सूतकं न स्यादित्युपक्रम्य
न दीक्षण्याः परं यज्ञे न कृच्छ्रादितपश्चरन् । पितर्यपि मृते नैषां दोषो भवति कर्हिचित् ॥ आशौचं कर्मणोऽन्ते स्यात् त्र्यहं वा ब्रह्मचारिणाम् । इत्यपरार्के इति छन्दोग परिशिष्टात् । तद्वद्गृहीतदीक्षस्य त्रैविद्यस्य महामखे ।
स्नानं त्ववभृथे यावत्तावतस्य न सूतकम् ॥ इति ब्रह्मपुराणाच्च । अवभृथस्नानादस्त्येव । एवं चाधा