Book Title: Shatrunjayatirthoddharprabandha
Author(s): Jinvijay
Publisher: Shrutgyan Prasarak Sabha

View full book text
Previous | Next

Page 80
________________ शत्रुञ्जयतीर्थोद्धारप्रबन्धे साधुः श्रीसमराह्वयोऽपि सुगुरोरेते पवित्राशया उद्धारान् गुरुभक्तितो विदधिरे श्रीपुण्डरीकाचले । साधुश्रीकरमाह्वनिर्मितगुरूद्धारस्वरूपं मया संशृण्वन्त्वभिधीयमानमधुना पीयूषवर्षोपमा ॥६॥ तपापक्षे महत्यस्मिन् गच्छे रत्नाकराह्वये । भृगुकच्छीयशाखायां सूरयो भूरयोऽभवन् ॥७ ॥ सर्वत्र लब्धविजयास्तत्र श्रीविजयरत्नसूरीन्द्राः । समजनिषत भव्याम्बुजविकासने हेलिकेलिभृतः ॥८ ॥ तेषां शिष्यमतल्लिकाः समभवन् श्रीधर्मरत्नाभिधाः सूरीन्द्रा द्रुघणायमानचरिताः शस्यक्रियावत्सु ये । स्याद्वादोज्ज्वलहेतिसंहतिहतप्रावादुकप्रीतयः श्रीरत्नत्रयधारका जितकलाकेलिप्रभावाः कलौ ॥ ९ ॥ सुविहितजनाभिगम्या विशदयशः पूरपूरितदिगन्ताः । निहितकुपाक्षिकपक्षा जयन्ति ते धर्मरत्नसूरीन्द्राः ॥ १० ॥ उद्यच्छन्ती विवादाय गिरा सह यदीयया । पराजयं सुधा घोषवती न लभतां कथम् ॥११॥ हृद्घोषे नन्दप्रदेशो गोपो यद्गां दधन्मुदा । अमारिपयसा कीर्त्तिकुटुम्बं समपूपुषत् ॥१२॥ येषां पद्मामन्त्रः सरीसे शैशवेऽपि सिद्धिमदात् । वव्रे यानतिसुभगानक्षीणमहानसी लब्धिः ॥ १३॥ १. हृदयरूपाभीरपल्ल्याम् । Jain Education International 2010_02 (त्रिभिर्विशेषकम् ।) ७७ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114