Book Title: Shatrunjayatirthoddharprabandha
Author(s): Jinvijay
Publisher: Shrutgyan Prasarak Sabha

View full book text
Previous | Next

Page 101
________________ ९८ द्वितीय उल्लासः । सङ्घस्य विपुलां भक्तिं शक्तिमान् स व्यधाद्धनी । अन्नपानवरावासासनसन्मानदानतः ॥११३॥ सुस्फुराः स्वाभिधावच्च कृतास्तदधिकारिभिः । प्रतिष्ठाविधयः सर्वे न्यासमुद्राविशारदैः ॥११४॥ भिषग्भ्यश्च पुलिन्देभ्यो ज्ञात्वा वृद्धेभ्य आदरात् । स औषधीः समाजहेऽगणितद्रविणव्ययः ॥११५॥ कृत्येषु सर्वेष्वपि सूरिवर्यैः क्रमेण च श्राद्धजनैश्च सर्वैः । श्रीपाठकेन्द्राः सुभगाः प्रमाणीकृताः समस्तक्षणसावधानाः ॥११६॥ सर्वान् तत्: कुलगुरून् वचसा गुरूणां दानीयमन्यमपि सम्यगुपास्य लोकम् । तेषां वरामनुमतिं समवाप्य कर्मः प्रावर्त्तत प्रवरकृत्यविधौ विधिज्ञः ॥११७॥ यदा यदा पाठकपुङ्गवैः कृती धनव्यये तद्धितवाञ्छयेरितः । तदा तदानन्दमवाप सोऽञ्जसा पदे शतस्यापि सहस्त्रयच्छकः ॥११८॥ नाऽकोपि दानेन किलातिकणे केनापि तस्मिन् सहनप्रधाने । वनीपकेनेहिततोऽधिकानि प्रयच्छति प्रीणितजन्तुजाते ॥११९॥ यदर्थितुं चेतसि मार्गणैधृतं तदस्य संवीक्ष्य मुखप्रसन्नताम् । गिराधिकं याचितमाप्तमाश्वितोऽधिकं च तदानमतो वचोऽगतिम् ॥ १२०॥ नानावर्णसुभक्तिशालिविशदोल्लोचप्रभाभासुरा मुक्ताजालविभूषिता मणिगणाढ्यैः कन्दुकैरञ्चिताः १. विच्छित्ति । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114