Book Title: Shatrunjayatirthoddharprabandha
Author(s): Jinvijay
Publisher: Shrutgyan Prasarak Sabha

View full book text
Previous | Next

Page 105
________________ १०२ द्वितीय उल्लासः । कर्मस्य काऽपि विकृतिर्न वचननयनाननेषु सञ्जाता । याचककोटीक्षणतः प्रसन्नतैतेषु वृद्धिमगात् ॥१५१॥ यद्वाच्यं वक्तृभिस्तद् हृदि विमलतरेऽसौ विशेषेण जानन् तेभ्यः शुश्राव सम्यक् तृषित इव तद्दूषणादत्तचित्तः । तानिच्छातीनदानैः प्रियतमवचनैर्हष्टचित्तान्विधाय प्रैषीद्गम्भीरिमाऽहो ! जगति च वचनातीतमौदार्यमस्य ॥१५२॥ वैदग्धेन निजेन पण्डितजनेऽवज्ञां परां नाट्यन्त्येके स्वं त्वपलापयन्ति च भृशं शाठ्यं समातन्वते । किन्तु श्रीकरमोऽर्थिसात्कृतरमोऽयं मार्गणाक्षोहिणीनामन्तर्विलसत्सदा विजयते दानास्त्रविभ्राजितः ॥१५३॥ कुलाचारं क्षुद्रस्त्यजति हि कदाचिद्धनमदादितीवार्थी याञ्चाव्रतमुचदिभ्याद् द्रविणवान् । न मुञ्चत्यात्मीयं व्रतमिह महात्मा कथमपीत्यसौ कर्मो दानान्न खलु विरराम क्षणमपि ॥१५४॥ अन्योऽन्यसन्दर्शनजातरागयोदेहीति वाक्यं बुवतोर्विशङ्कितम् । जज्ञे जनैर्दायकयाचकाङ्गिनोस्तदान्तरं नायहस्तयोर्मुहुः ॥१५५॥ स कोऽपि याचको नाभूद्येन कर्मो न याचितः । स पुनर्याचको नाभूद्येन कर्मस्तु याचितः ॥१५६॥ स्वर्णोपवीतमुद्राङ्गदकुण्डलकङ्कणादिकाभरणैः । वस्त्रैश्च सूत्रधारानतूतुषत्सोऽपि कर्मकृतः ॥१५७॥ धनवसनाशनभूषणयानप्रियवचनभक्तिबहुमानैः । साधर्मिकगणमसकृत्समारराधैष विनयनतः ॥१५८॥ १. 'अपरे' अध्याहारः । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114