Book Title: Shatrunjayatirthoddharprabandha
Author(s): Jinvijay
Publisher: Shrutgyan Prasarak Sabha
View full book text
________________
१०४
द्वितीय उल्लासः । तावच्छ्रीकरमाह्वसङ्घप्रकृतोद्धारप्रशस्तिः परा सद्वर्णा जयतादियं बुधजनैः सा वाच्यमानानिशम् ॥१६६॥ वैशाखासितसप्तम्यां सोमवारे शुभेऽहनि । इष्टार्थसाधकाह्वोऽयं प्रबन्धो रचितः शुभः ॥१६७॥ प्रतिं च प्रथमादीदलिखद्दशमीगुरौ । निदेशात्पाठकेन्द्राणां बुधः सौभाग्यमण्डनः ॥१६८॥ अनुष्टभां त्रिशत्येकचत्वारिंशत्समन्विता । सप्तविंशतिवर्णाढ्या ग्रन्थे हीष्टार्थसाधके ॥१६९॥
इति श्रीइष्टार्थसाधकानाम्नि श्रीशत्रुञ्जयोद्धारप्रबन्धे पं. विवेकधीरगणीकृते श्रीशत्रुञ्जयोद्धारव्यावर्णनो नाम
द्वितीय उल्लासः ॥
इति श्रीशत्रुञ्जयोद्धारः समाप्तः ॥
१. संवत् १५८७ । २. संवत् १८५७ ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114