Book Title: Shatrunjayatirthoddharprabandha
Author(s): Jinvijay
Publisher: Shrutgyan Prasarak Sabha

View full book text
Previous | Next

Page 102
________________ शत्रुञ्जयतीर्थोद्धारप्रबन्धे सद्वातायनपतिसङ्गतमरुत्प्रेडोलितोद्यद्ध्वजाः प्रोत्तुङ्गाः पटमण्डपा जवनिकासंच्छादिता रेजिरे ॥१२१॥ तदानन्दमयं विश्वमभवच्च महोमयम् । क्षणा इव दिना जाता लोकानां कुतुकेक्षणात् ॥१२२॥ सूर्यकुण्डं ततो मुख्यमघसङ्घातघातकम् । व्यक्तीचक्रेऽर्चकैवृद्धैरिभ्यदानवशीकृतैः ॥१२३॥ जलयात्रादिने तेनोत्सवा ये च वितेनिरे । भरताद्युत्सवानां ते निदर्शनपदेऽभवन् ॥१२४॥ अथ निर्णीते दिवसे स्नात्रप्रमुखेऽखिले विधौ विहिते । प्राप्ते च लग्नसमये प्रसरति सति मङ्गलध्वनि ॥१२५॥ सर्वेषु प्रसन्नीभूतेषु जनेषु मुक्तविकथेषु । श्राद्धगणेषु समन्ताद्भक्तिभरोल्लसितचित्तेषु ॥१२६॥ गायन्तीष्वतिहर्षाच्छ्राद्धीपूत्फुल्लनयनवदनासु । आतोद्येषु च नदत्सु च नृत्यत्सु च भव्यवर्गेषु ॥१२७॥ विस्फारितनयनाम्बुजमविरतमीक्षत्सु सकललोकेषु । अहमहमिकया घट्यां धूपेषूत्क्षिप्यमाणेषु ॥१२८॥ विकसत्कुसुमामोदैनिभृतं सुरभीकृतासु काष्ठासु । वर्षन्तीषु च कुङ्कुमकर्पूराम्भःसु धारासु ॥१२९॥ बन्दिषु पठत्सु भोगावलीषु विलसत्सु विजयशद्वेषु । सङ्कान्तेषु च मूर्ती सुरेषु पूज्यानुभाववशात् ॥१३०॥ कर्मेभ्याभ्यर्थनयोपकारबुद्धया च विश्वलोकानाम् । रागद्वेषविमुक्तैरनुमत्या निखिलसूरीणाम् ॥१३१॥ १. तदा मूलनायकप्रतिमया सप्त श्वासोच्छ्वासाः कृताः । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114