Book Title: Shatrunjayatirthoddharprabandha
Author(s): Jinvijay
Publisher: Shrutgyan Prasarak Sabha
View full book text
________________
९७
शत्रुञ्जयतीर्थोद्धारप्रबन्धे वैद्येषु साल्वेषु च तायिकेषु सौवीरप्रत्यग्रथकेरलेषु । कारूपभोटेषु च कुन्तलेषु लाटेषु सौराष्ट्रसुमण्डलेषु ॥१०१॥ श्रीगूर्जरात्रासु मरुष्वथापि ये सन्ति लोका मगधेषु तेऽपि । आकारिताः कर्ममहेभ्यः के नानाकारिताश्चाययुरुत्सवेऽस्मिन्
॥१०२॥ (त्रिभिः कुलकम्) गजाधिरूढास्तुरगाधिरूढा रथाधिरूढा वृषभाधिरूढाः । अभ्याययुः सारसुखासनाधिरूढा नराः सत्करभाधिरूढाः ॥१०३॥ विद्यामण्डनसूरीन्द्रान् रत्नसाधुरुपेत्य च । नत्वा स्तुत्वोल्लसद्भक्तिः ससङ्घाश्च न्यमन्त्रयत् ॥१०४॥ पूज्याः प्राहुर्महाभाग ! पुरा पार्श्वसुपार्श्वयोः । चित्रकूटाचले चैत्यं व्यधायि भवताद्भुतम् ॥१०५॥ आहूतैरपि निर्बन्धादस्माभिस्तत्र नागतम् । विवेकमण्डनेनास्मच्छिष्येण तत्प्रतिष्ठितम् ॥१०६॥ चेतोऽस्माकं पुराप्यासीच्छत्रुञ्जयगिरि प्रति । सोत्कण्ठमधुना तत्तु त्वरां धत्ते विशेषतः ॥१०७॥ ततः सरत्नसङ्घाः श्रीविद्यामण्डनसूरयः । शिष्यसौभाग्यरत्नानूचानादिमुनिमण्डिताः ॥१०८॥ परःशतैः सूरिराजैरन्यैः पाठकपण्डितैः । सहस्त्रसंख्यैर्मुनिभिः पूज्यत्वेन पुरस्कृताः ॥११०॥ कृतोत्सवाश्च कर्मेणायातेनाभिमुखं भृशम् । विहरन्तः क्रमेणाद्रेर्व्यभूषयन्नुपत्त्यकाम् ॥१११॥ लक्षाभिर्मानुषाणां सा भूरभूदतिसङ्कटा । कर्मेभ्यस्य परं वक्षो विपुलं समजायत ॥११२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114