Book Title: Shatrunjayatirthoddharprabandha
Author(s): Jinvijay
Publisher: Shrutgyan Prasarak Sabha
View full book text
________________
८६
व्यधत्त विधिना स्पर्द्धामप्यनुल्लङ्घयन् विधिम् । विधिनिर्मितदौर्विध्यानीश्वरीकृत्य सोऽञ्जसा ॥८७॥ द्विसन्ध्यमावश्यकमेकचित्तस्त्रिसन्ध्यमर्च्या जिनराजमूर्त्तेः । कुर्वन् सदा पर्वसु पौषधादिकर्मो हि धर्मं चिरमारराध ॥ ८८ ॥ उपार्जयामास हिरण्यकोटीर्महेभ्यकोटीरमणिः सुखेन । वणिक्पुतश्रेणिनिषेव्यमाणोऽपापैरुपायैर्नरवाहनोऽन्यः ॥८९ ॥
स्वरूपशोभाविजिताप्सरोभ्यामभान्महेभ्यः सुभगः प्रियाभ्याम् । सरूपशोभाजितकाममानः सदार्थिनां कल्पतरूपमानः ॥९०॥
पुत्रपौत्रप्रपौत्रादिस्वजनालम्बनं हि सः ।
रराज वासव इव स्वर्वासिभिरुपासितः ॥९१॥
इति करमाह्वः साधितपुरुषार्थो मनसि देवमेव जिनम् । श्रीविनयमण्डनं गुरुमस्थापयदमलसम्यक्त्वः ॥ ९२ ॥
शत्रुञ्जयोद्धृतिविधो विधृतप्रतिज्ञः
स्वप्नेऽपितिद्गतमनाः प्रयतः समन्तात् । इष्टार्थसाधकमनिन्दितमुत्प्रभावं
'धर्म्मामरद्रुममसौ चिरमारराध ॥ ९३ ॥
प्रथमोल्लासः ।
इति श्रीइष्टार्थसाधकनाम्नि श्रीशत्रुञ्जयोद्धारप्रबन्धे पं. विवेकधीरगणिकृते वंशादिव्यावर्णनो नाम प्रथम उल्लासः ।
१. चिंतामणि स खलु मंत्रमथारराध - इति वा पाठः ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114