Book Title: Shatrunjayatirthoddharprabandha
Author(s): Jinvijay
Publisher: Shrutgyan Prasarak Sabha
View full book text
________________
शत्रुञ्जयतीर्थोद्धारप्रबन्धे न्यवारयद्भूपमिति ब्रूवाणं कर्मेभ्य आप्यायितचित्तवृत्तिः । अलं भरं वोढुमधीश ! नैतावन्तं जनोऽयं बत भृत्यमात्रः ॥४१॥ आवासान् करमाय बाधरधराधीशोऽप्यथादापयत् सन्मान्य प्रवरांशुकाभरणसत्ताम्बूलदानादिना । नत्वा देवगुरून् वितीर्य बहुधा स्वयं याचकेभ्यो नृपप्रत्तावासमथाससाद स महेभ्योऽप्युत्सर्वैर्भूरिभिः ॥४२॥ श्रीसोमधीरसुगणिं निकषा धर्मोपदेशमश्रौषीत् । आवश्यकादिकृत्यं चकार नित्यं महौभ्योऽसौ ॥४३॥ अथ चविद्यामण्डनसूरीन्द्रान् पाठकेन्द्रानपि स्फुटम् । स उद्दिश्यालिखत्पत्रं प्रणामागमसूचकम् ॥४४॥ उपभूपं स्वयं तस्यौ सावधानमना: सुधीः । पूजाप्रभावनासङ्घवात्सल्यादिपरायणः ॥४५॥ अथ देयं ददौ द्रव्यं भूपोऽपीभ्याय सत्वरम् । इभ्योऽपि धर्मपत्रे तदलिखत्तत्क्षणादपि ॥४६॥ तुष्टोऽन्यदा बाधरशाहिराह वयस्य ! किं ते प्रियमाचरामि । मन्मानसप्रीतिकृते समृद्धदेशादिकं किञ्चिदितो गृहाण ॥४७॥ ततो महेभ्यः समुवाच वाचं शत्रुञ्जयोद्धारपरीतचेताः । भवत्प्रसत्त्या मम सर्वमस्ति किन्त्वेतदीहे महसां निधान ! ॥४८॥ संस्थापनीया मयकास्ति शत्रुञ्जयाचले गोत्रसुरी विशाला । आज्ञां प्रयच्छाधिप ! तन्निमिता अभिग्रहाः सन्ति ममापि तीव्राः
॥४९॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114