Book Title: Shatrunjayatirthoddharprabandha
Author(s): Jinvijay
Publisher: Shrutgyan Prasarak Sabha
View full book text
________________
शत्रुञ्जयतीर्थोद्धारप्रबन्धे त्वयि भवो भगवन्न पुनर्भवो न मदनो मदनोऽपि मदोऽमदः । जनमिमं तु समुद्धर दुर्गतौ परिपतन्तमनन्यगतिं हहा ॥६०॥ पूज्यैः पुराऽऽश्लिष्टतयोदितं यत्तत्साम्प्रतं स्पष्टतया विधेयम् । समस्तशास्त्रार्थविचारदक्षैः क्रियासु योग्यासु कृतावधानैः
॥६१॥ समुद्धतिः प्राकृतवस्तुनोऽपि पुण्याय लोकैकरुपदिश्यते चेत् । जिनेन्द्रबिम्बस्य कथं न शत्रुञ्जयाचले सा हि महोदयाय ॥६२॥ अथवा महतामियं कथं परिहासाय न धृष्टता मम । भवतामुपदेश एष चेद्भवतामेव पुनः समर्प्यते ॥६३॥ वाक्यावसानेऽथ च पाठकेन्द्रा मनक् स्मितो नोत्तरयाम्बभूवुः । धर्मोपदेशेन यथोचितेन जन्तूनशेषान् समबूबुधश्च ॥६४॥ कर्माख्यमाहुर्विधिविज्ञ ! धर्मकृत्ये त्वया द्राक् यतनीयमेव । ज्ञास्यामहे चावसरे वयं तूपेक्षां शुभे कर्मणि के हि कुर्युः ॥६५॥ वक्तृवैशिष्ट्यतो व्यङ्ग्यविद्विज्ञाततदागमः । गुरून् नत्वाऽचलत्कर्मो गृहीतनृपशासनः ॥६६॥ अहोभिः पञ्चषैरदिरगान्नेत्रपथातिथिः । कर्मस्य हृदयानन्दी महातीर्थाहयो यतः ॥६७॥ वीक्षणाच्छैलराजस्य सोऽभूतानन्दमेदुरः । स्तनयित्नोः शिखण्डीव चलचञ्चुर्विधोरिव ॥६८॥ वर्द्धाप्य स्वर्णरजतपुष्पै रत्नैः फलैरपि । सन्तोष्य मार्गणान् दानैर्गिरये स नमोऽकरोत् ॥६९॥ १. करमस्येतिशेषः । तद्भाषणान्ते-इति वा पाठः । २. महातीर्थं शत्रुञ्जयस्य
नाम ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114