SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ शत्रुञ्जयतीर्थोद्धारप्रबन्धे त्वयि भवो भगवन्न पुनर्भवो न मदनो मदनोऽपि मदोऽमदः । जनमिमं तु समुद्धर दुर्गतौ परिपतन्तमनन्यगतिं हहा ॥६०॥ पूज्यैः पुराऽऽश्लिष्टतयोदितं यत्तत्साम्प्रतं स्पष्टतया विधेयम् । समस्तशास्त्रार्थविचारदक्षैः क्रियासु योग्यासु कृतावधानैः ॥६१॥ समुद्धतिः प्राकृतवस्तुनोऽपि पुण्याय लोकैकरुपदिश्यते चेत् । जिनेन्द्रबिम्बस्य कथं न शत्रुञ्जयाचले सा हि महोदयाय ॥६२॥ अथवा महतामियं कथं परिहासाय न धृष्टता मम । भवतामुपदेश एष चेद्भवतामेव पुनः समर्प्यते ॥६३॥ वाक्यावसानेऽथ च पाठकेन्द्रा मनक् स्मितो नोत्तरयाम्बभूवुः । धर्मोपदेशेन यथोचितेन जन्तूनशेषान् समबूबुधश्च ॥६४॥ कर्माख्यमाहुर्विधिविज्ञ ! धर्मकृत्ये त्वया द्राक् यतनीयमेव । ज्ञास्यामहे चावसरे वयं तूपेक्षां शुभे कर्मणि के हि कुर्युः ॥६५॥ वक्तृवैशिष्ट्यतो व्यङ्ग्यविद्विज्ञाततदागमः । गुरून् नत्वाऽचलत्कर्मो गृहीतनृपशासनः ॥६६॥ अहोभिः पञ्चषैरदिरगान्नेत्रपथातिथिः । कर्मस्य हृदयानन्दी महातीर्थाहयो यतः ॥६७॥ वीक्षणाच्छैलराजस्य सोऽभूतानन्दमेदुरः । स्तनयित्नोः शिखण्डीव चलचञ्चुर्विधोरिव ॥६८॥ वर्द्धाप्य स्वर्णरजतपुष्पै रत्नैः फलैरपि । सन्तोष्य मार्गणान् दानैर्गिरये स नमोऽकरोत् ॥६९॥ १. करमस्येतिशेषः । तद्भाषणान्ते-इति वा पाठः । २. महातीर्थं शत्रुञ्जयस्य नाम । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002553
Book TitleShatrunjayatirthoddharprabandha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherShrutgyan Prasarak Sabha
Publication Year2009
Total Pages114
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Tirth
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy