SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ९२ द्वितीय उल्लासः । पुरापि किञ्च प्रतिपन्नमासीच्छ्रीचित्रकूटे भवता नरेश ! मामुत्कलाप्य व्रजता विदेशमुपस्थितोऽयं समयोऽधुना सः ॥५०॥ श्रुत्वेति वाचं निजगाद शाहिर्यद्रोचते ते कुरु तद्विशङ्कम् । गृहाण मे शासनपत्रमेतन्न कोऽपि भावी प्रतिबन्धकोऽत्र ॥५१॥ ततोऽह्नि शुद्धे करमश्चचालोपादाय तच्छासनपत्रमाशु । सुवासिनीभिः कृतमङ्गलश्च प्रवृद्धरागः शकुनैर्वरण्यैः ॥५२॥ आतोद्यनादध्वनितान्तरिक्षः प्रगीतकीर्त्तिः पथि बन्दिवृन्दैः । पौरैः परीतो गजवाजिराजरथाधिरूढैः परितो रथस्यः ॥५३॥ धनैर्मुदाऽऽसार इवाभिवर्षन् सूर्यादपि स्फीतमरीचिजालः । भ्राजिष्णुरिन्द्रादपि वैभवेन शुद्धः सुधादीधितितोऽपि सौम्यः ॥५४॥ चैत्येषु चैत्येषु पुरे पुरे च स्नात्रार्चनादीन्यमलानि तन्वन् । शालासु शालासु च साधुवर्गं सन्मानयन् सद्वसनानपानैः ॥५६॥ स्वैरुद्धरन् दुस्थितदीनलोकान्निवारयन् शाकुनिकादिवर्गम् । त्यजन्निषिद्धाचरणानि धर्मकृत्यानि सर्वाणि समाचरंश्च ॥५६॥ (पञ्चभिः कुलकम्) स्तम्भतीर्थमधिगत्य सत्पुरं पौरलोकविहितोत्सवः क्रमात् । पार्श्वनाथमभिनूय तत्र सीमन्धरं च परमां मुदं दधे ॥५७॥ तत उपेत्य स पौषधसद्मनि प्रमदजोद्वषणाञ्जितविग्रहः । विनयमण्डनपाठकसत्तमान्समभिवन्द्य कृती न्यवदत्तदः ॥५८॥ फलवदद्यतनं दिनमीशितर्मतिजितभंगुरो ! सुगुरो ! मम । सुविहिताय॑भवच्चरणाम्बुजप्रणतितो जितमन्मथभूपते ! ॥११॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002553
Book TitleShatrunjayatirthoddharprabandha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherShrutgyan Prasarak Sabha
Publication Year2009
Total Pages114
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Tirth
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy