Book Title: Shatrunjayatirthoddharprabandha
Author(s): Jinvijay
Publisher: Shrutgyan Prasarak Sabha
View full book text
________________
शत्रुञ्जयतीर्थोद्धारप्रबन्धे श्रुतपूर्वराजनन्दनचरितो वसुधानिरीक्षणव्यसनी । कतिचनपरिचारकजनसमन्वितो निर्ययौ सदनात् ॥२१॥ पुरनगरपत्तनान्याक्रामन् विक्रमधनः क्रमेणैषः । श्रीचित्रकूटदुर्गे जगाम तद्भूपविहितबहुमानः ॥२२॥ करमेभ्येन सहस्याभवदतिसौहार्दमंशुकः कयणात् । प्रियवचनाशनवसनैरेनं करमोऽपि बहु मेने ॥२३॥ स्वप्नेऽन्यदा गोत्रसुरीगिरेभ्यः स्वेष्टार्थसिद्धिं प्रविभाव्य तस्मै । वितीर्णवान् टङ्ककलक्षमाशूद्यताय गन्तुं पथि शम्बलार्थम् ॥२४॥ आजीवितं मित्रवराधमोऽहं ते, वदन्तं त्विति कर्म आह । न वाच्यमित्थं प्रभवो हि यूयं भृत्यः कदापि स्मरणीय एषः ॥२५॥ सुलब्धराज्येन वचोमदीयमेकं विधेयं भवता प्रयत्नात् । शत्रुञ्जये स्थापनरूपमङ्गीचकार तद्बाधरशाहिराशु ॥२६॥ अथ प्रतस्थे करमं ततोऽनुज्ञाप्याधिपो गूर्जरमण्डलस्य । सर्वंसहायाः कुतुकानि सर्वंसहो ह्यपश्यद्दिवसैः कियद्भिः ॥२७॥ मुजफ्फरो भूमिधवोऽवसाने शकन्दरं राज्यधरं चकार । स नीतिशालीति खलैर्निजघ्ने स्तोकैरहोभिर्महिमुन्दकोऽपि ॥२८॥ वृत्तान्तमाप्तप्रहितं निशम्य विदेशगो बाधरशाहिरेनम् । प्रत्यावृतश्चम्पकदुर्गमाप तदैव राज्ये विनिविष्ट एव ॥२९॥ श्रीविक्रमार्काद्णदिक्षरेन्दुमितास्वतीतासु समासु १५८३ जज्ञे । राज्याभिषेको नृपबाधरस्य प्रोष्ठद्वितीयादिवसे गुरौ च ॥३०॥ स्वामिद्रोहपरायणाः खलजनाः केचिद्धता उद्धताः केचिन्निर्विषयीकृता विदलिताः केचिच्च बन्दीकृताः ।
१. चित्रकूटात् । २. शकन्दर ।
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114