Book Title: Shatrunjayatirthoddharprabandha
Author(s): Jinvijay
Publisher: Shrutgyan Prasarak Sabha

View full book text
Previous | Next

Page 91
________________ द्वितीय उल्लासः । अलावदीनो - वेदाक्षाग्रीन्दुवर्षेषु १३५४ विक्रमात् । गूर्जरात्रालाभपुरजेताऽभूत्पार्थिवो महान् ॥१०॥ कुतुब- सहाब " - खसबाद्दीनाः श्रीग्यासदीनें - महिमुदौ । पिरोज". बूबक "नृपौ तुगलक - महिमुदशाही च ॥११॥ २३ ८८ दिल्लयामेते भूपा अलावदीनाच्च गूर्जरात्रेशाः । षण्महिमूदनृपान्ता रज्यविभक्तिस्ततो जज्ञे ॥ १२ ॥ अलावदीनाद्याज्ञप्ताः पत्तनेऽथाधिकारिणः । अलूखानः खानखानाँ दफरंश्च ततारकैः ॥१३॥ पीरोजशाहेः समयेऽथ जज्ञे श्रीगूर्जरात्राभुवि पादशाहिः । मुज्जफुराह्वः खगुणाब्धिचन्द्रमितेषु १४३० वर्षेषु च विक्रमार्कात् ॥१४॥ अहिमदशाहिर्जज्ञे तत आशेष्वब्धिचन्द्रमितवर्षे १४५४ । दिग्रसवेन्द्वे १४६८ योऽस्थापयदहिमदावादम् ॥१५ ॥ महिर्मुन्द-कुतुबैदीनौ शाहिमहिर्मुन्दवेगडस्तदनु । यो जीर्णदुर्गचम्पकदुर्गौ जग्राह युद्धेन ॥ १६ ॥ ततो लक्षणसाहित्यज्योतिःसङ्गीतशास्त्रवित् । आधारो विदुषां वीरश्रीवरोऽभून्मुजफ्फरः ॥१७॥ प्रज्ञाः प्रजा इवापाद्यः प्रजा इव प्रजा अपि । शकन्दरादयः पुत्रा बभूवुस्तस्य भूविभोः ॥१८॥ नयविनयभक्तिशक्तिप्रमुखगुणैरन्वितः पितुश्चेतः । अहरच्छकन्दराह्नो जायान्सूनुः प्रजायाश्च ॥१९॥ बाधरनामा तदनुज उद्वरचरितः प्रतापजिततरणि: । रिपुहृदये प्रलयानल इवोदितः साहसी सततम् ॥२०॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114