Book Title: Shatrunjayatirthoddharprabandha
Author(s): Jinvijay
Publisher: Shrutgyan Prasarak Sabha

View full book text
Previous | Next

Page 83
________________ ८० प्रथमोल्लासः। अविहितसन्धानानां साङ्गेनामा करार्पणै राज्ञाम् । शङ्काशङ्करं निःसरणे नाप हृद्दाही ॥३३॥ हेषन्ते हरयो विपक्षसदोद्भिन्नाङ्करैर्मेदुरा गर्जन्तेऽञ्जनशैलकीर्तिविततिग्रासोद्धराः सिन्धुराः । ज्वालश्यामलमेघघोररसितप्रस्पर्द्धिनः स्यन्दनध्वाना वेश्मनि यस्य साङ्गनृपतिश्चक्री नवः कोऽप्ययम् ॥३४॥ अथामभूपस्य कुले विशाले क्रमादभूत्सारण ओशवंशे १ । श्रीरामदेवस्तनयस्तदीयो रामस्य पुत्रोऽपि च लक्ष्मसिंहः ३ ॥३५॥ अथ लक्ष्मसिंहतनयः सत्याह्वो भुवनपालनामाभूत् ४ । श्रीभोजराजानामा५तनयोऽभूद्भुवनपालस्य ॥३६॥ ठक्कुरसिंहो भोजाइत्तजः खेताभिधश्च तत्सूनुः७ । नरासिंहाख्यः साधुः८ क्रमशस्ते [ ते ] नरोत्तंसाः ॥३७॥ तोलाभिधानो नरसिंहसूनुः९ साधुः सुधादीधितिशुद्धकीर्त्तिः । प्राणप्रिया तस्य च भाग्यभूमिबलू ललामप्रतिमा सतीषु ॥३८॥ साधुस्तोलाभिधः साङ्गभूपस्याभूत्प्रियः सखा । अमात्यत्वमनिच्छन् यो लेभे श्रेष्ठिपदं नृपात् ॥३९॥ स नयी विनयी दाता ज्ञाता मानी धनी भृशम् । दयालुहृदयालुश्च यशस्वी च महत्स्वपि ॥४०॥ विपरीतलक्षणोदाहरणे धनदं वदन्तु लाक्षणिकाः । तोलाख्यस्य वदान्यस्याग्रे भद्रामिवाभद्राम् ॥४१॥ तोलाढेन न केवलमर्थिजनो निर्मितः सदानन्दी । सुरशाखिप्रमुखा अपि विमोचिता याचकक्लेशात् ॥४२॥ गजरथतुरगाभरणस्वर्णलसद्रूप्यरत्नवसनानाम् । दानैरर्थिधरास्वम्भोधरलीलायितं तेन ॥४३॥ १. सारणदेवः । Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114