Book Title: Shaddarshan Samucchay
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan

View full book text
Previous | Next

Page 54
________________ आद्यमनुमानमिह शास्त्रे कारणात्कार्यानुमानमुदितं कारणान्मेघात् कार्य वृष्टिलक्षणं यतो ज्ञायते तत्कारणकार्यं नामानुमानं कथितमित्यर्थः ॥१९॥ (अव०) पूर्ववच्छेषवत् सामान्यतो दृष्टम् । तत्र त्रिषु मध्ये कारणात् मेघात् कार्यं तवृष्टिलक्षणं यतो ज्ञायते तत्कारणकार्यमनुमानं निदर्शनेन द्रढयति ॥१९॥ निदर्शनेन तमेवार्थं द्रढयन्नाह यथारोलम्बगवलव्यालतमालमलिनत्विषः । वृष्टिं व्यभिचरन्तीह नैवम्प्रायाः पयोमुचः ॥२०॥ (सो०) यथेति दृष्टान्तकथनारम्भे । रोलम्बाः भ्रमराः, गवलं माहिषं शृङ्गम्, व्याला गजाः, सर्पा वा, तमाला वृक्षविशेषाः, सर्वेऽप्यमी कृष्णाः पदार्थाः स्वभावतो ज्ञेयाः । द्वन्द्वसमासो बहुव्रीहिश्च । एवम्प्राया एवंविधाः पयोमुचो मेघा वृष्टिं न व्यभिचरन्तीति । एवम्प्राया इत्युपलक्षणेन परेऽपि वृष्टिहेतवोऽभ्युन्नत्यादि विशेषा ज्ञेयाः । यदुक्तम् गम्भीरगर्जितारम्भनिभिन्नगिरिगह्वराः । तुङ्गत्तडिल्लतासङ्गपिशङ्गोत्तुङ्गविग्रहाः ॥ [न्यायमञ्जरी] इत्यादयोऽपि वृष्टिं न व्यभिचरन्ति ॥२०॥ (अव०) रोलम्बा भ्रमराः, गवलं माहिषं शृङ्गम्, व्याला: गजाः सर्पा वा, तमाला वृक्षाः, मलिना अर्थात् कृष्णा त्विट् येषाम् । एवम्प्राया इत्युपलक्षणेन परेऽत्युन्नतत्वर्जितत्वादयो विशेषा ज्ञेयाः ॥२०॥ शेषवन्नामधेयं द्वितीयमनुमानभेदमाह कार्यात्कारणानुमानं यच्च तच्छेषवन्मतम् । तथाविधनदीपूरान्मेघो वृष्टो यथोपरि ॥२१॥ (सो०) यत्कार्यात् फलात्कारणानुमानं फलोत्पत्तिहेतुपदार्थावगमनं • १७ .

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146