Book Title: Shaddarshan Samucchay
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan
View full book text
________________
भवतीति अन्वयद्वारेण वस्तुपरिच्छेदः, तदधिकमभावैकरूपं निराचष्टे । नैवं घटाभावप्रतिबद्ध-भूतलग्रहणासिद्धेः नास्तिताग्रहणावसरे प्रामाण्यमेव भावस्य मानसोत्पन्नम् ॥७६॥
उपसंहरन्नाह—
जैमिनीयमतस्यापि सङ्क्षेपोऽयं निवेदितः । एवमास्तिकवादानां कृतं सङ्क्षेपकीर्तनम् ॥७७॥
( सो० ) अपिशब्दान्न केवलमपरदर्शनानां जैमिनीयमतस्याप्ययं सङ्क्षेपो निवेदितः कथितः । वक्तव्यस्य बाहुल्याट्टीकामात्रे सामस्त्यकथनायोगात् सङ्क्षेप एव प्रोक्तोऽस्ति । अथ सूत्रकृत्सम्मतसङ्क्षेपमुक्त्वा निगमनमाह-एवमिति । एवमित्थम्, आस्तिकवादिनामिह परलोकगतिपुण्यपापास्तिक्यवादिनां बौद्ध - नैयायिक - साङ्ख्य- जैन- वैशेषिक- जैमिनीयानां सङ्क्षेपकीर्त्तनंकृतं सङ्क्षेपेण वक्तव्यमभिहितमित्यर्थः ॥७७॥
"
(अव०) उपसंहरन्नाह - अपिशब्दात् न केवलमपरदर्शनानां जैमिनीयमतस्यापि कथितः । वक्तव्यस्य बाहुल्याट्टीकामात्रे सामस्त्यकथनायोगात् । एवमास्तिकवादिनामिह परलोकगतिपुण्यपापास्तिक्यवादिनां बौद्ध-नैयायिक - साङ्ख्य- जैन- वैशेषिक- जैमिनीयानां सङ्क्षेपकीर्त्तनं कृतम् ॥७७॥
विशेषान्तरमाह—
नैयायिकमतादन्ये भेदं वैशेषिकैः सह ।
न मन्यन्ते मते तेषां पञ्चैवास्तिकवादिनः ॥७८॥
(सो० ) अन्ये आचार्या नैयायिकमताद्वैशेषिकैः सह भेदं न मन्यन्ते दर्शनाधिष्ठात्रेकदैवतत्वात् पृथग्दर्शनं नाभ्युपगच्छन्ति तेषां मतापेक्षया आस्तिकवादिनः पञ्चैव ॥७८॥
(अव० ) विशेषान्तरमाह । अन्ये आचार्याः नैयायिकमताद् वैशेषिकैः सह भेदं न मन्यन्ते । दर्शनाधिष्ठात्रैकदैवतत्वात् पृथग्दर्शनं नाभ्युपगच्छन्ति तेषां मतापेक्षया
I
• ७६ •

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146