Book Title: Shaddarshan Samucchay
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan

View full book text
Previous | Next

Page 137
________________ तत्परलोकिनः सिद्धौ कर्मबन्धो न दुर्घटः । .... विचित्राध्यवसायस्थः स हि बनात्यनादितः ॥१७१॥ पुण्यपापमयं कर्म चीयते वाऽपचीयते । तद्वशात् सुखदुःखानि न तु यादृच्छिकान्यहो ! ॥७२॥ नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात् । अपेक्षातो हि भावानां कादाचित्कत्वसम्भवः ॥१७३।। स्तन्यपानाभिलाषो यत् प्रथमं बालके भवेत् । पूर्वजन्माभ्यासतोऽसौ तस्मिन् जन्मन्यशिक्षणात् ॥१७॥ तस्मान्नास्तिकवाक्येषु रतिः कर्तुं न युज्यते । आत्मा ज्ञानी कर्ममुक्तः परलोकी च बुध्यताम् ॥१७५॥ स चाष्टाङ्गेन योगेन कर्मोन्मूल्य समन्ततः । आप्नोति मुक्तिं तत्रोच्चैरानन्दं स्वादयत्यहो ! ॥१७॥ सादिकमनन्तमनुपममव्याबाधं स्वभावजं सौख्यम् । प्राप्तः स केवलज्ञानदर्शनो मोदते मुक्तः ॥१७७॥ सर्वथाऽप्यजिघांसूनां गुरुदेवहितैषिणाम् । अदीर्घमत्सराणां च मुक्तिरासन्नवर्तिनी ॥१८॥ कालस्वभावनियतिचेतनेतरकर्मणाम् । भवितव्यतया पाके मुक्तिर्भवति नान्यथा ॥१७९॥ बालावबोधनकृते मलधारिसूरिः श्रीराजशेखर इति प्रथमानबुद्धिः । सम्यग्गुरोरधिगतोत्तमतर्कशास्त्रः षड्दर्शनीमिति मनाक् कथमयाम्बभूव ॥१८०॥ इति श्रीराजशेखरसूरिकृतः षड्दर्शनसमुच्चयः। .. टी. • एतच्चिह्नयुताः श्लोकाः श्रीहरिभद्रसूरिकृत-षड्दर्शनसमुच्चये दृश्यन्ते । • १०० .

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146