Book Title: Shaddarshan Samucchay
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan

View full book text
Previous | Next

Page 135
________________ ज्ञानपारमिताद्यास्तु ग्रन्थाः स्युर्दश तन्मते । - प्रासादा वर्तुलास्तेषां बुद्धाण्डक इति स्मृताः ॥१४७॥ मृद्वी शय्या प्रातरुत्थाय पेया मध्ये भक्तं पानकं चापराह्ने । द्राक्षाखण्डं शर्करा चार्द्धरात्रे मोक्षश्चान्ते शाक्यसिंहेन दृष्टः ॥१४८॥ ॥ इति बौद्धमतम् ॥ उक्ता लिङ्गादयो भेदा दर्शनानां शिवैषिणाम् । तद्विस्तरस्तु न प्रोक्तो यथाज्ञानमुदीरितः ॥१४९॥ अष्टाङ्गयोगसिद्ध्यर्थं दध्युलिङ्गानि लिङ्गिनः । सर्वे प्राहुस्तमष्टाङ्गं तत्स्वरूपं वदाम्यथ ॥१५०॥ अहिंसासूनृतास्तेयब्रह्माकिञ्चनता यमाः । नियमाः शौचसन्तोषौ स्वाध्यायतपसी अपि ॥१५१॥ देवताप्रणिधानं च करणं पुनरासनम् । प्राणायामः प्राणयमः श्वासप्रश्वासरोधनम् ॥१५२॥ प्रत्याहारस्त्विन्द्रियाणां विषयेभ्यः समाहृतिः । . धारणा तु क्वचिद् ध्येये चित्तस्य स्थिरबन्धनम् ॥१५३॥ ध्यानं तु विषये तस्मिन्नेकप्रत्ययसन्ततिः । समाधिस्तु तदेवार्थमात्राभासनरूपकम् ॥१५४॥ एवं योगो यमाद्यङ्गैष्टभिः सम्मतोऽष्टधा । मोक्षोपायो योगो ज्ञानश्रद्धानचरणात्मकः ॥१५५॥ निवर्त्तको भवेद् धर्मो दर्शनानां शिवैषिणाम् । राज्यादिभोगामिच्छूनां गृहिणां तु प्रवर्तकः ॥१५६॥ सर्वसावद्यविरतिधर्मः सिद्ध्यै निवर्तकः । इष्टापूर्तादिको धर्मो भवेद् भूत्यै प्रवर्तकः ॥१५७॥ धर्माधर्मविधातारं जीवं दर्शनिनो विदुः । नास्तिकास्तं न मन्यन्ते पुण्यापुण्यबहिर्मुखाः ॥१५८॥ • ९८ .

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146