Book Title: Shaddarshan Samucchay
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan

View full book text
Previous | Next

Page 140
________________ परिशिष्ट-१ (वेदान्त-दर्शनम् ) लोकायत मतेऽप्येवं सङ्क्षपोऽयं निवेदितः । वेदान्तिनां मतस्यासौ कथ्यमानो निशम्यताम् ॥१॥ वेदान्तिनः पुनः प्राहुरद्वैतमतवादिनः । ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः ॥२॥ अनिर्वाच्या हि मायात्र या विवर्तविधायिनी । विक्षेपावारशक्तिभ्यां सहिताध्यासकारणम् ॥३॥ आवारशक्तिर्मायायाः प्रोक्ता कर्तृत्वकारणम् । शक्तिर्विक्षेपरूपा च प्रपञ्चजननी मता ॥४॥ सर्वसत्त्वानुस्यूतं च ब्रह्मैवैकं च निर्गुणम् । सदाशुद्धं स्वतः सिद्धं तद्भिन्नं विद्यते न सत् ॥५॥ • १०३ .

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146