Book Title: Shaddarshan Samucchay
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan
View full book text
________________
तेऽधिपर्षद् वदन्त्येवं नास्ति जीवो न कर्म च । धर्माधर्मों न विद्यते ततः किं नु तयोः फलम् ? ॥१५९॥ एतावानेव लोकोऽयं यावानिन्द्रियगोचरः । भद्रे ! वृकपदं पश्य यद् वदन्त्यबहुश्रुताः ॥१६०॥ पिब खाद च चारुलोचने ! यदतीतं वरगात्रि ! तन्न ते । न हि भीरु ! गतं निवर्त्तते समुदयमात्रमिदं कलेवरम् ॥१६१॥ पृथ्वी जलं तथा तेजो वायुर्भूतचतुष्टयम् । प्रमाणभूमिरेतेषां मानं त्वक्षजमेव हि ॥१६२॥ पृथ्व्यादिभूतसंहत्या यथा देहादिसङ्गतिः । मदशक्तिः सुराऽङ्गेभ्यो यद्वत् तद्वच्चिदात्मता ॥१६३॥ तस्माद् दृष्टपरित्यागाद् यददृष्टे प्रवर्त्तनम् । तद्धि लोकस्य मूढत्वं चार्वाकाः प्रतिपेदिरे ॥१६४॥ क्रमेण खण्डनं तेषां जीवस्तावत्प्रपद्यताम् । अहं दुःखी सुखी चाहमिति प्रत्यययोगतः ॥१६५॥ घटं वेम्यहमित्यत्र त्रितयं प्रतिभासते । कर्म क्रिया च कर्ता च तत्कर्ता किं निषिध्यते ? ॥१६६॥ शरीरमेव चेत्कर्तृ, न कर्तृ, तदचेतनम् । भूतचैतन्ययोगाच्च चेतनं, तदसङ्गतम् ॥१६७॥ मया दृष्टं श्रुतं स्पृष्टं घ्रातमास्वादितं स्मृतम् । इत्येककर्तृका भावा भूतचिद्वादिनः कथम् ? ॥१६८॥ स्वसंवेदनतः सिद्धे स्वदेहे चेतनात्मनि । परदेहेऽपि तत्सिद्धिरनुमानेन साध्यते ॥१६९॥ बुद्धिपूर्वा क्रिया दृष्टा स्वदेहेऽन्यत्र तद्गतिः । प्रमाणबलतः सिद्धा चेतना नातिवार्यते ॥१७०॥

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146