Book Title: Shaddarshan Samucchay
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan

View full book text
Previous | Next

Page 127
________________ स्वकीयस्य मतस्यैते महिमानं प्रचक्षते । यदि साङ्ख्यमते भक्तिस्तदा मुक्तिविना क्रियाम् ॥५८॥ उक्तञ्च माठप्रान्तेहस पिब लल खाद मोद नित्यं भुङ्क्व च भोगान् यथाऽभिलाषम् । यदि विदितं ते कपिलमतं तत् प्राप्स्यसि मोक्षसौख्यमचिरेण ॥५९॥ ॥ इति साङ्ख्यमतम् ॥ अथ मीमांसकं ब्रूमो जैमिनीयापराभिधम् । जैमिनीया एकदण्डास्त्रिदण्डा अपि साङ्ख्यवत् ॥६०॥ मीमांसको द्विधा कर्मब्रह्ममीमांसकस्तथा । वेदान्ती मन्यते ब्रह्म कर्म भट्टप्रभाकरौ ॥६१॥ ते धातुरक्तवसना मृगचर्मोपवेशिकाः । कमण्डलुधरा मुण्डा भट्टाः प्राभाकराश्च ते ॥६२॥ वेदान्तध्यानमेवैकमाचारस्तैरुरीकृतः । तेषां मते नास्ति देवः सर्वज्ञादिविशेषणः ॥६३॥ तस्मादतीन्द्रियार्थानां साक्षाद् द्रष्टुरभावतः । नित्येभ्यो वेदवाक्येभ्यो यथार्थत्वविनिर्णयः ॥६४॥ अत एव पुरा कार्यो वेदपाठ: प्रयत्नतः । ततो धर्मस्य जिज्ञासा कर्त्तव्या धर्मसाधनी ॥६५॥ नोदनालक्षणो धर्मो नोदना तु क्रियां प्रति । प्रवर्तकं वचः प्राहुः स्वःकामोऽग्नि यथा यजेत् ॥६६॥ वेद एव गुरुस्तेषां वक्ता कश्चित्परो न हि । . ततः स्वयं ते संन्यस्तं संन्यस्तमिति भाषिणः ॥६७॥ यज्ञोपवीतं प्रक्षाल्य पिबन्ति तज्जलं शुचि । एते साङ्ख्यानुगा वेषात् तत्त्वेऽतिमहती भिदा ॥६८॥ .९० .

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146