Book Title: Shaddarshan Samucchay
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan
View full book text
________________
षट्प्रमाणस्पृशो भाट्टास्तन्नामानि प्रचक्ष्महे । प्रत्यक्षमनुमानं च शाब्दं चोपमया सह ॥६९॥ अर्थापत्तिरभावश्च भाट्टानां षट् प्रमाः स्मृताः । प्रभाकरमते पञ्च ते ह्यभावं न मन्वते ॥७०॥ एकमेवाद्वितीयं स्यात् ब्रह्म तत्त्वं महाफलम् । प्रपञ्चः स्तम्भकुम्भादिस्तेषां शास्त्रे निरर्थकः ॥७१॥ मीमांसको द्विजन्मेवेत्यत: शूद्रान्नवर्जकः । न पौरुषकृता वेदाः पारम्पर्येण तद्ग्रहात् ॥७२॥ मीमांसकानां चत्वारो भेदास्तेषु कुटीचरः । बहूदकश्च हंसश्च तथा परमहंसकः ॥७३॥ कुटीचरो मठावासी यजमानपरिग्रही । बहूदको नदीतीरे स्नातो नैरस्यभैक्ष्यभुक् ॥७४॥ हंसो भ्रमति देशेषु तप:शोषितविग्रहः । यः स्यात्परमहंसस्तु तस्याचारं वदाम्यहम् ॥७५॥ स ईशानी दिशं गच्छन् यत्र निष्ठितशक्तिकः । तत्रानशनमादत्ते वेदान्तध्यानतत्परः ॥७६॥ परः पर इहोत्कृष्टो याज्यास्तेषां तु वाडवाः । साङ्ख्यवत्प्रकृतेर्भेदात् मोक्षो जीवस्य तन्मते ॥७७॥ (गार्गीयस्मृतिमध्यगाः श्लोकाः) त्रिदण्डी सशिखो यस्तु ब्रह्मसूत्री गृहच्युतः । सकृत् पुत्रगृहेऽश्नाति यो याति स कुटीचरः ॥७॥ कुटीचरस्य रूपेण ब्रह्मभिक्षो जिताशनः । बहूदकः स विज्ञेयो विष्णुजापपरायणः ॥७९॥

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146