Book Title: Shaddarshan Samucchay
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan
View full book text
________________
तेषां नामान्यथ ब्रूमो नकुलीशोऽथ कौशिकः । गार्ग्यो मैत्र्यः कौरुषश्च ईशानः षष्ठ उच्यते ॥ ९१ ॥
सप्तमः पारगार्ग्यस्तु कपिलाण्डमनुष्यकौ । अपरकुशिकोऽत्रिश्च पिङ्गलाक्षोऽथ पुष्पकः ॥९२॥ बृहदाचार्योऽस्तिश्च सन्तानः षोडशः स्मृतः । राशीकरः सप्तदशो विद्यागुरुरथापरः ॥९३॥ एतेऽष्टादश तीर्थेशास्तैः सेव्यन्ते पदे पदे । पूजनं प्रणिधानं च तेषां ज्ञेयं तदागमात् ॥९४॥ अक्षपादो गुरुस्तेषां तेन ते ह्याक्षपादकाः । उत्तमां संयमावस्थां प्राप्ता नग्ना भ्रमन्ति ते ॥ ९५ ॥
प्रमाणानि च चत्वारि प्रत्यक्षं लैङ्गिकं तथा । उपमानं च शाब्दं च तत्फलानि पृथक् पृथक् ॥९६॥
तत्त्वानि षोडशामुत्र प्रमाणादीनि तद्यथा । प्रमाणं च प्रमेयं च संशयश्च प्रयोजनम् ॥९७॥
दृष्टान्तोऽप्यथ सिद्धान्तोऽवयवस्तर्कनिर्णयौ । वादो जल्पो वितण्डा च हेत्वाभासाश्छलानि च ॥९८॥
जातयो निग्रहस्थानान्येषां व्ययस्तु दुस्तरः । आत्यन्तिकस्तु दुःखानां वियोगो मोक्ष उच्यते ॥९९॥
जयन्ताचार्यरचितो न्यायतर्कोऽतिदुस्तरः ।
अन्यस्तूदयनाचार्यो ग्रन्थप्रासादसूत्रभृत् ॥१००॥
भासर्वज्ञो न्यायसारतर्कसूत्रविधायकः । न्यायसाराभिधे तर्फे टीका अष्टादश स्फुटाः ॥१०१॥
न्यायभूषणनाम्नी तु टीका तासु प्रसिद्धिभाक् । अयमेषां विशेषस्तु यत्प्रजल्पन्ति पर्षदि ॥१०२॥
९३

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146