Book Title: Shaddarshan Samucchay
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan
View full book text
________________
अथ वैशेषिकं ब्रमः पाशुपतान्यनामकम् । लिङ्गादि यौगवत्तेषां ते ते तीर्थकरा अपि ॥११३॥ वैशेषिकाणां योगेभ्यो मानतत्त्वगता भिदा । प्रत्यक्षमनुमानं च मते तेषां प्रमाद्वयम् ॥११४॥ अवशेषप्रमाणानामन्तर्भावोऽत्र तैर्मतः । तत्त्वानि तु षडेवात्र द्रव्यप्रभृतिकान्यहो ! ॥११५॥ द्रव्यं गुणस्तथा कर्म सामान्यं च चतुर्थकम् । . विशेषसमवायौ च तत्त्वषट्कं हि तन्मते ॥११६॥ तत्र द्रव्यं नवधा भूजलतेजोऽनिलान्तरिक्षाणि । कालदिगात्ममनांसि च गुणाः पुनः पञ्चविंशतिधा ॥११७॥ स्पर्शरसरूपगन्धाः शब्दः सङ्ख्या विभागसंयोगौ । परिमाणं च पृथक्त्वं तथा परत्वापरत्वे च ॥११८॥ बुद्धिः सुखदुःखेच्छा धर्माधर्मप्रयत्नसंस्काराः । द्वेषः स्नेहगुरुत्वे द्रवत्ववेगौ गुणा एते ॥११९॥ . उत्क्षेपावक्षेपावाकुञ्चनकं प्रसारणं गमनम् । पञ्चविधं कमैतत् परापरे द्वे तु सामान्ये ॥१२०॥ तत्र परं सत्ताख्यं द्रव्यत्वाद्यपरमथ विशेषस्तु । निश्चयतो नित्यद्रव्यवृत्तिरन्त्यो विनिर्दिष्टः ॥१२१॥ य इहायुतसिद्धानामाधाराधेयभूतभावानाम् । सम्बन्ध इह प्रत्ययहेतुः स च भवति समवायः ॥१२२॥ योगे वैशेषिके तन्त्रे प्रायः साधारणी क्रिया । आचार्यः शङ्कर इति नाम प्रागभिधापरम् ॥१२३॥ अमीषां तर्कशास्त्राणि षट्सहस्राणि कन्दली। . श्रीधराचार्यरचिता प्रशस्तकरभाष्यकम् ॥१२४॥
• ९५ .

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146