Book Title: Shaddarshan Samucchay
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan
View full book text
________________
अमीषां साङ्ख्यसूरीणां तत्त्वानां पञ्चविंशतिः ।। सत्त्वं रजस्तमश्चेति ज्ञेयं तावद् गुणत्रयम् ॥४५॥ . एतेषां या समाऽवस्था सा प्रकृतिः किलोच्यते । प्रधानाव्यक्तशब्दाभ्यां वाच्या नित्यस्वरूपिका ॥४६॥ ततः सञ्जायते बुद्धिर्महानिति यकोच्यते । अहङ्कारस्ततोऽपि स्यात् ततः षोडशको गणः ॥४७॥ स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रं च पञ्चमम् । पञ्च बुद्धीन्द्रियाण्याहुस्तथा कर्मेन्द्रियाणि च ॥४८॥ पायूपस्थवचःपाणिपादाख्यानि मनस्तथा । अन्यानि पञ्चरूपाणि तन्मात्राणीति षोडश ॥४९॥ रूपात्तेजो रसादापो गन्धाद्भूमिः स्वरान्नभः । स्पर्शाद्वायुस्तथा चैवं पञ्चभ्यः पञ्चभूतकम् ॥५०॥ एवम् चतुर्विशतितत्त्वरूपं निवेदितं साङ्ख्यमते प्रधानम् । अन्यश्च कर्ता विगुणश्च भोक्ता तत्त्वं पुमान् नित्यचिदभ्युपेतः ॥५१॥ अमूर्तश्चेतनो भोगी नित्यः सर्वगतोऽक्रियः । अकर्ता निर्गुणः सूक्ष्म आत्मा कापिलदर्शने ॥५२॥ प्रकृतेविरहो मोक्षस्तन्नाशे स स्वरूपगः । बध्यते मुच्यते चैव प्रकृतिः पुरुषो न तु ॥५३॥ साङ्ख्यानां मतवक्तारः कपिलासुरिभार्गवाः । उलूकः पञ्चशिखश्चेश्वरकृष्णस्तु शास्त्रकृत् ॥५४॥ तर्कग्रन्था एतदीया माठरस्तत्त्वकौमुदी। गौडपादाऽऽत्रेयतन्त्रे साङ्ख्यसप्ततिसूत्रयुक् ॥५५॥ काश्यां प्राचुर्यमेतेषां बहवो मासोपवासिकाः । धूम्रमार्गानुगा विप्रा अचिर्मार्गानुगास्त्वमी ॥५६॥ वेदप्रियास्ततो विप्रा यज्ञमार्गानुगामिनः । हिंसादिवेदविरताः साङ्ख्या अध्यात्मवादिनः ॥५७॥
• ८९ .

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146