Book Title: Shaddarshan Samucchay
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan
View full book text
________________
ॐनमो नारायणाय तद्भक्ताः प्रवदन्त्यदः । प्रणामकाले तेऽप्याहुः पदं तत्तु नमोऽन्तकम् ॥३४॥ बीटेति भारते ख्याता दारवी मुखवस्त्रिका । दयानिमित्तं भूतानां मुखनिःश्वासरोधिका ॥३५॥ यदाहुस्तेघ्राणादनुप्रयातेन श्वासेनैकेन जन्तवः । हन्यन्ते शतशो ब्रह्मन्नणुमात्राक्षरवादिना ॥३६॥ दयार्थं जलजीवानां गलनं धारयन्ति ते । शास्त्रेषुपदिशन्त्येवं भक्तानां पुरतः सदा ॥३७॥ षट्त्रिंशदङ्गुलायामं विंशत्यङ्गुलविस्तृतम् । दृढं गलनकं कुर्याद्भूयो जीवान् विशोधयेत् ॥३८॥ नियन्ते मिष्टतोयेन पूतराः क्षारसम्भवाः । क्षारतोयेन तु परे न कुर्यात् सङ्करं ततः ॥३९॥ लूताऽऽस्यतन्तुगलितैकबिन्दौ सन्ति जन्तवः । सूक्ष्मा भ्रमरमानास्ते नैव मान्ति त्रिविष्टपे ॥४०॥ कुसुम्भकुङ्कमाम्भोवन्निचितं सूक्ष्मजन्तुभिः । न दृढेनापि वस्त्रेण शक्यं शोधयितुं जलम् ॥४१॥ (उत्तरमीमांसायां गलनकविचारोऽयम्) साङ्ख्या निरीश्वराः केचित् केचिदीश्वरदेवताः । ये ते निरीश्वरास्तेऽमी नारायणपरायणाः ॥४२॥ विष्णोः प्रतिष्ठां कुर्वन्ति साङ्ख्यशासनसूरयः । चैतन्यप्रमुखैः शब्दैस्तेषामाचार्य उच्यते ॥४३॥ प्रत्यक्षमनुमानं च शाब्दं चेति प्रमात्रयम् । अन्तर्भावोऽत्र शेषाणां प्रमाणानां सयुक्तिकः ॥४४॥
•८८ .

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146