Book Title: Shaddarshan Samucchay
Author(s): Vairagyarativijay
Publisher: Pravachan Prakashan
View full book text
________________
पिच्छिका चमरीवालैः काष्ठासङ्के प्रतिष्ठिता । मूलसङ्के मयूराणां पिच्छैर्भवति पिच्छिका ॥२२॥ पिच्छिका माथुरे सङ्के मूलादपि हि नादृता । मयूरपिच्छिका गोप्या धर्मलाभं भणन्ति ते ॥२३॥ धर्मवृद्धिगिरः शेषाः, गोप्याः स्त्रीमुक्तिभाषिणः । गोप्यादन्ये त्रयः सङ्घाः प्राहुर्नो निर्वृति स्त्रियाः ॥२४॥ शेषास्त्रयश्च गोप्याश्च केवलिभुक्तिं न मन्वते । नास्ति चीवरयुक्तस्य निर्वाणं सव्रतेऽपि हि ॥२५॥ द्वात्रिंशदन्तरायाः स्युर्मलाश्चैव चतुर्दश । भिक्षाऽटने भवन्त्येषां वर्जनीयास्तदागमे ॥२६॥ शेषं श्वेताम्बरैस्तुल्यं आचारे दैवते गुरौ । श्वेताम्बरप्रणीतानि तर्कशास्त्राणि मन्वते ॥२७॥ स्याद्वादविद्याविद्योतात्प्रायः साधर्मिका अमी । परमष्टसहस्री या न्यायकैरवचन्द्रमाः ॥२८॥ सिद्धान्तसार इत्याद्यास्ताः परमकर्कशाः । तेषां जयश्रीदानाय प्रगल्भन्ते पदे पदे ॥२९॥ जिनकल्पादयो भेदा व्युच्छिन्नाः साम्प्रतं कलौ । वर्तमानं ततः प्रोक्तं सर्वं ज्ञेयं जिनागमात् ॥३०॥ सम्यग् जैनं मतं ज्ञात्वा योगेऽष्टाङ्गे रमेत यः । स कर्मलाघवं कृत्वा लब्धा सौख्यपरम्पराम् ॥३१॥
॥ इति जैनमतम् ॥ अथ साङ्ख्यमतं ब्रूमस्ते त्रिदण्डैकदण्डकाः । कौपीनं वसनं तेषां धातुरक्ताम्बराश्च ते ॥३२॥ क्षुरमुण्डा एणचर्मासना द्विजगृहाशनाः । पञ्चग्रासपराश्चैव द्वादशाक्षरजापिनः ॥३३॥
• ८७.

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146